________________
११०
तत्त्वोपप्लवसिंहे शब्दार्थप्रतिपत्त्यन्यथानुपपत्त्या शब्दार्थसम्बन्धनित्यताप्रतिपत्तिः। तथा अर्थापत्तिपूर्विका अर्थापत्तिः - शब्दार्थसम्बन्धनित्यताप्रतिपत्तिः । तथा , उपमानपूर्विका अर्थापत्तिः - गवयपिण्डग्रहणानन्तरं गेहावस्थितगोपिण्डे गोगवयसादृश्यावच्छिन्ने
प्रतिपत्तिरुपमानात् पिण्डावच्छिन्ने वा सादृश्ये, तस्य पिण्डस्य वाहदोहप्रसवसामर्थ्यम् अर्थापत्या प्रत्येति। एषा षट् प्रकाराऽर्थापत्तिः।
इयं चानुपपन्ना। यदुक्तम् – 'रूपदर्शनान्यथानुपपत्या चक्षुरिन्द्रियं प्रतीयते । तद्युक्तम्। चक्षुरिन्द्रियान्वयव्यतिरेक10सम्बन्धावधारणमन्तरेण अन्यकारणपरिहारेण नियतकारणप्रतिपत्तिः अर्थापत्त्याऽनुपपन्ना - चक्षुरादिकरणस्य पिशाचादितुल्यत्वात् न तद्वगतिः, अवगतौ वा अर्थापत्त्यनुपपत्तिः ।
यदप्युक्तम् - ' अन्यथोपपद्यते ' इति । अत्र काऽनुमा ? अथवा रूपादिज्ञानस्यैव धर्मित्वं करणपूर्वकमिति साध्यो धर्मः 15कार्यत्वात् रथादिवत् ।
__ एवं सर्वार्थापत्तिविषयत्वेन प्रयोगव्युत्पादनं कार्यम् । प्रत्यक्षपूर्वकत्वाच अर्थापत्तेः तद्भावे तद्भावात् ॥ छ ।
[११. उपमानप्रामाण्यस्य निरास:।] तथा, उपमानमपि संभवति काननगतगवयपिण्डदर्शना20नन्तरं गेहावस्थितगोपिण्डे गवयसादृश्यावच्छेदेन यद्विज्ञानं तद् उपमानफलम् । गोपिण्डावच्छिन्ने सादृश्ये वा यद् विज्ञानं तद्वा उपमानफलं गवयपिण्डज्ञानमुत्पादनम् । तदेतदयुक्तम् , प्रत्यक्षमूलमुपमानम् , तद्पगमे तस्याप्यपगमात् ।
अथ किमिदं गोगवयसादृश्यं यद् गोपिण्डग्रहणकाले ना25वगतम् उपमानावगम्यते ? किम् अवयवानां संस्थानम् , किं वा विषाणाद्यवयवा वा, सामान्यं वा, अथ धर्मान्तरम् ? तद्यदि अवयवानां संस्थानं सादृश्यम् । तदुपलब्धिलक्षणप्रासं