________________
१०. षडिधार्थापत्तिप्रामाण्यस्य निरासः ।
१०९
अथ अवस्तुभूतः स किं क्रियते, ज्ञाप्यते वा ? तद्यदि क्रियते; तदयुक्तम्, सर्वोपाख्याविनिर्मुक्तस्य करणायोगात्, करणे वा वस्तुत्वप्रसंगः। अथ ज्ञाप्यते ; तेन सह कृतकत्वस्य सम्बन्धव्यतिरेकात्, अव्यतिरेके वा तस्य वस्तुत्वं कृतकत्वासत्त्वं वा।
5 ____ अथ अनित्यताब्यवहारः क्रियते - यो हि कृतकत्वं जाननपि अनित्यताव्यवहारं न करोति स हि अत्र व्यवहार्यते; सोऽपि व्यवहारः अनित्यत्वाव्यतिरिक्तः, व्यतिरिक्तो वा ? यद्यव्यतिरिक्तः ; असावपि प्रतिपन्न एवानुमानिकः ।
अथ व्यतिरिक्तः स किं कृतकत्वेन उत्पाद्यते , ज्ञाप्यते10 वा? यदि उत्पाद्यते; तदा न शन्दोत्पादकहेतूनामनुमानत्वम् ।
अथ ज्ञाप्यते ; तेन साकं सम्बन्धोऽभिधेयः । न तादात्म्यलक्षणः, ज्ञाप्याद भिन्नत्वात् ।
अथ तदुत्पत्तिलक्षणः; सोप्यनुपपन्न एव - किं व्यवहारेण उत्पाद्यते घटः, घटेन वा उत्पाद्यते व्यवहारः ? न तावदुः15 व्यवहारेण उत्पाद्यते घटः; आदौ घटसत्ता तद्नु व्यवहारः। अथ घटेनोत्पाद्यते व्यवहारः; तदा कारणानुमानम् , न स्वभा. वानुमानम्। तच्च स्वयमेव पर्युदस्तम् ॥ छ ।
___ [ १०. षड्डिधार्थापत्तिप्रामाण्यस्य निरास: । ] एवमर्थापत्यादीनामप्यप्रामाण्यम् । किं पुनः अर्थाप-20 यादेः स्वरूपम् ? कथं वा प्रामाण्यम् ? तत्र दर्शनार्थापत्तेस्तावत् स्वरूपं व्युत्पाद्यते - रूपदर्शनान्यथानुपपत्त्या चक्षुःप्रतिपत्तिः। तथा, अनुमानपूर्विका - अनुमानादग्नित्वप्रतिपत्यन्यथानुपपत्त्या - अग्निव्यक्तिप्रतिपत्तिः। अभावपूर्विका अर्थापत्तिः - जीवति देवदत्तः गेहे नास्ति - गेहाभावान्यथानु-25 पपत्त्या बहिर्भावप्रतिपत्तिः । तथा, आगमपर्विका अर्थापत्तिः