________________
१०८
तत्त्वोपप्लवसिंह
नादेव जानीमः । सैव सत्ता प्रतिभाति । आद्यानुभवेपि सा सत्ता प्रतिभाति । कुतोऽवगता ? एवं ज्ञानयोरपि हेतुफलभावावधारणं न शक्यते कर्तुम् , तदभावान्न कार्यानुमानम् ॥ छ ॥
[$ १९. बौद्धसंमतस्य स्वभावानुमानस्य निरास:।] 5 तथा स्वभावानुमानस्यापि न सम्बन्धावधारणमुपपद्यते, तभावात् । भिन्नयोः सम्बन्ध(ड)योः सम्बन्धो दृष्टः, नहथेकस्य सम्बन्ध उपपद्यते ।
किंच, कृतकत्वेन अनित्यत्वानुमानं क्रियते - किमवगतेन, अनवगतेन वा ? तद्यदि अनवगतेन : तत्कथं स्वयमनु (मनव) 10गतं साधनं भवितुमर्हति ? अथावगतेन; तस्यां कृतकत्वावगतौ अनित्यत्वं प्रतिभाति वा, न वा? यदि न प्रतिभाति ; कथं प्रतिभासमानाऽप्रतिभासमानयोस्तादात्म्यम् ? अथ प्रतिभाति; किमनुमानेन ? निष्पादितक्रिये कर्मणि साधनानर्थक्यम् , अन्यथा
हि कृतकत्वप्रतिपत्तावपि अनुमानमुपादेयं स्यात् । 15 अथ कृतकत्वं प्रतिपन्नमिति कृत्वा नानुमानमुपादीयते; तत्स्वभावानुवन्ध्यनित्यत्वमप्यवगतम् , किमनुमानेन ? अवगते च अनित्यत्वे यत् साधनमुपादीयते तत् कदाचिदनित्यताप्रतिपत्त्यर्थम् , कदाचिच्च नित्यतासमारोपव्यवच्छेदार्थम् , कदाचित्व(त्त्व)नित्यताव्यवहारार्थम् ? 20 तद्यदि अनित्यताप्रतिपत्त्यर्थम् : सा ज्ञातैव, व्यर्थः प्रयासः। ___अथ समारोपव्यवच्छेदार्थम् ; समारोपव्यवच्छेदः अनित्यत्वाव्यतिरिक्तः, व्यतिरिक्तो वा ? तद्यद्यव्यतिरिक्तः; असावपि अनित्यत्वावगमेनैवावगतत्वान्न साधनान्तरमपेक्षते। 25 अथ व्यतिरिक्तः; स किं वस्तुभूतः, अवस्तुभूतो वा ? तद्यदि वस्तुभूतः ; तेन सह शब्दगतकृतकत्वस्य तादात्म्यानुपपत्तिः । तादात्म्ये वा तदवगमेनैवावगमात् नानुमानमपेक्षते।