Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 151
________________ १४. शब्दप्रामाण्यस्य निरासः । ११९ धानेन, अन्यत्र तु कारकवैकल्यान्नैव संपत्स्यते । नचैतावता प्रमाणं चोदनाजनिता बुद्धि: । I किंच, बाधारहितत्वमपि किम्-अशेषपुरुषापेक्षया, कतिपयपुरुषापेक्षया वा ? यद्यशेषपुरुषापेक्षया; तदावगन्तुं न शक्यते, परचित्तवृत्तीनां दुरन्वयत्वात् । अथ कतिपय पुरुषापेक्षया बाधा- 5 रहितत्वम् ; तदाऽनैकान्तिको हेतुः - यथा असत्योदके जातोदकबुद्धि: तस्माद्देशात् देशान्तरं यदा प्रयाति तत्रैव दशार्धतामुपयाति, नच तस्य बाधकं विज्ञानमुत्पन्नम् । किमेतावता तत् प्रमाणं भवतु ? अथवा चोदनाजनितविज्ञानस्य निर्विषयत्वमेव भ्रान्तत्वम्, चोदनाजनितविज्ञानसमानकालीन कर्त्तव्यतारूपा - 10 र्थस्याऽसंभवात् । संभवे वा चोदनावचसो वैकल्यम्, वितानक्रियाविलोपः । अथ न विद्यते कर्त्तव्यतारूपोऽर्थः कथं चोदनावचनोद्भूतं विज्ञानं न मिथ्या ? अन्यथा केशोण्डुक संविदो मिथ्यात्वं न भवेत् । अथ तस्या [ : ] प्रतीयमानार्थाऽसंभवेन मिथ्यात्वम् ; तदिहापि तदेवास्तु | 15 अथ चोदनाजनितविज्ञानार्थस्य पुनः सद्भावो भवति तेन तस्य यथार्थत्वम् । न तु केशोण्डुकविज्ञानस्य कदाचिदपि सद्भा वोऽस्ति । सोऽयं विषभक्षणेन परं प्रत्याययति तपस्वी । चोदनार्थस्य पश्चाद्भवनं तद्विज्ञानानुपयोगि, तस्मिन् काले ज्ञानस्य अस्तमितत्वात् विज्ञानकाले च अर्थस्य (स्था) संभवात् । 20 अथवा, इयमेव बाधा यदुत असंभाव्यमानार्थस्य प्रतिपादकत्वं यथा तन्तु तुरि-कारकोपनिपाते सति वस्त्रादिकार्यमुपजायमानं दृष्टम् । पुनः पटार्थिने उपदेशो दीयते - 'तन्तूनामुपादानं कुरुष्व' इति । न त्वेवं सप्ततन्त्ववदातकर्मणोः साध्यसाधनसम्बन्धावधारणम्, नापूर्वम्, येनात्र उपदेशस्य साफल्यं भवति 125 एवं तावदुक्तेन न्यायेन शब्दानां वाचकत्वेन प्रामाण्यं न युज्यते । १. मरणम् - दि०

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190