Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 142
________________ ११० तत्त्वोपप्लवसिंहे शब्दार्थप्रतिपत्त्यन्यथानुपपत्त्या शब्दार्थसम्बन्धनित्यताप्रतिपत्तिः। तथा अर्थापत्तिपूर्विका अर्थापत्तिः - शब्दार्थसम्बन्धनित्यताप्रतिपत्तिः । तथा , उपमानपूर्विका अर्थापत्तिः - गवयपिण्डग्रहणानन्तरं गेहावस्थितगोपिण्डे गोगवयसादृश्यावच्छिन्ने प्रतिपत्तिरुपमानात् पिण्डावच्छिन्ने वा सादृश्ये, तस्य पिण्डस्य वाहदोहप्रसवसामर्थ्यम् अर्थापत्या प्रत्येति। एषा षट् प्रकाराऽर्थापत्तिः। इयं चानुपपन्ना। यदुक्तम् – 'रूपदर्शनान्यथानुपपत्या चक्षुरिन्द्रियं प्रतीयते । तद्युक्तम्। चक्षुरिन्द्रियान्वयव्यतिरेक10सम्बन्धावधारणमन्तरेण अन्यकारणपरिहारेण नियतकारणप्रतिपत्तिः अर्थापत्त्याऽनुपपन्ना - चक्षुरादिकरणस्य पिशाचादितुल्यत्वात् न तद्वगतिः, अवगतौ वा अर्थापत्त्यनुपपत्तिः । यदप्युक्तम् - ' अन्यथोपपद्यते ' इति । अत्र काऽनुमा ? अथवा रूपादिज्ञानस्यैव धर्मित्वं करणपूर्वकमिति साध्यो धर्मः 15कार्यत्वात् रथादिवत् । __ एवं सर्वार्थापत्तिविषयत्वेन प्रयोगव्युत्पादनं कार्यम् । प्रत्यक्षपूर्वकत्वाच अर्थापत्तेः तद्भावे तद्भावात् ॥ छ । [११. उपमानप्रामाण्यस्य निरास:।] तथा, उपमानमपि संभवति काननगतगवयपिण्डदर्शना20नन्तरं गेहावस्थितगोपिण्डे गवयसादृश्यावच्छेदेन यद्विज्ञानं तद् उपमानफलम् । गोपिण्डावच्छिन्ने सादृश्ये वा यद् विज्ञानं तद्वा उपमानफलं गवयपिण्डज्ञानमुत्पादनम् । तदेतदयुक्तम् , प्रत्यक्षमूलमुपमानम् , तद्पगमे तस्याप्यपगमात् । अथ किमिदं गोगवयसादृश्यं यद् गोपिण्डग्रहणकाले ना25वगतम् उपमानावगम्यते ? किम् अवयवानां संस्थानम् , किं वा विषाणाद्यवयवा वा, सामान्यं वा, अथ धर्मान्तरम् ? तद्यदि अवयवानां संस्थानं सादृश्यम् । तदुपलब्धिलक्षणप्रासं

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190