Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 97
________________ ---- --- ------ - - - - - - ----- ७. नैयायिकाभिमतस्यानुमानस्य निरसनम् । ६५ तद्भावे तस्याभावः तत्पूर्वकत्वात् । नहि कारणं विना कार्य लोके भवद् दृष्टम् , प्रत्यक्ष च कारणं गीयते तदभावात् कथमनुमानकुप्तिः, कृप्ती वा कार्याऽकस्मिकत्वप्रसङ्गः । प्रत्यक्षाभावमङ्गीकृत्य उक्तम् - " अविनाभावसम्बन्धस्य ग्रहीतुमशक्यत्वात्।" इतोपि अविनाभावसम्बन्धग्रहणानुपपत्तिः - किं सामान्ययोः सम्बन्ध वधारणम् , आहो स्वलक्षणयोः, सामान्यखलक्षणयोर्वा ? तद्यदि सामान्ययोः सम्बन्धावधारणम् ; तद्युक्तम् ; सामान्यानुपपत्तेः । तदनुपपत्तिश्च प्रागेवोपपादिता । नापि सामान्यखलक्षणयोः, सामान्यासंभवादेव। 10 नापि स्खलक्षणयोः; दहनधूमव्यक्तीनामानन्त्यात्, अ. भिनानेकानुगामिनिमित्ताऽसंभवाच्च । सद्भावेऽपि आनन्त्यस्थाऽनतिवृत्तेः, अतिवृत्तौ वा भावाभावप्रसङ्गः, तत्प्रसक्ती च वद् इदानीं कस्य सम्बन्धावधारणम् ? देशकालस्वभावविप्रकर्षाच न व्यक्तीनां सम्बन्धावधार-15 णाय अलं प्रत्यक्षम् । न च सम्बन्धिग्रहणमन्तरेण सम्बन्धबुद्धेरुपपत्तिः तदधिकरणत्वात् सम्बन्ध-तडयोः । न च सम्बन्धग्रहणसमये सर्वे सम्बन्धिनोऽवभान्ति , अप्रतिभासनात् । . न च अप्रतीयमानस्य प्रतीयमानत्वं कल्पयितुं न्याय्यम् , अति. प्रसङ्गात् । अन्यथा हि रासने विज्ञाने रसे प्रतीयमाने रूप-20 मपि कल्प्यं स्यात् । ___ अथ अविनाभावसम्बन्धग्रहणकालोपलक्षितकतिपयव्यक्तीनां सम्बन्धावधारणम्, न सर्वासामिति चेत् ; यद्येवं तासामेव गमकत्वं नान्यासाम् । नहि अन्यस्य सम्बन्धे अन्यस्य गमकत्वमस्ति, अतिप्रसङ्गात् । न जातु देवदत्तनयनघट-25 सम्बन्धे जाते जलादी ज्ञानमुत्पद्यते नियतदेशकालस्वभावा ९ त,

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190