Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 135
________________ ९. ताथागतसंमतस्यानुमानस्य निरासः १०३ पक्षयसि, अर्थस्य चाऽव्यतिरेकप्रतिपादनं करोसि इति ब्याहतमपदिश्यते, अर्थाव्यतिरेको हि अर्थधर्मः । अथ ज्ञानस्यैव अव्यतिरेकप्रतिपादनं क्रियते; तत्किं स्वस्मात्स्वरूपाव्यतिरिक्तम् , आहोस्वित् पररूपाव्यतिरिक्तम् ? तद्यदि स्वस्मात् स्वरूपाव्यतिरिक्तं ज्ञानम् ; तदा । अविवादेन सम्बोधयितव्याः। अथ परस्माद्व्यतिरेकप्रतिपादनं क्रियते ; स परात्मा तात्विकः, अतात्त्विको वा ? तद्यदि अतात्त्विकः; ततोऽव्यतिरिक्तं ज्ञानमपि अतात्त्विकं भवेत् । अथ तात्त्विकः; सोप्यवधारितदेहो वा , अनवधारितदेहो10 घा? तद्यदि अवधारितदेहः; स किं भिन्नाकारतया अवगतः, अभिन्नाकारतया वा ? यदि भिन्नाकारतया अवधारितः; तदा भिन्नाकारावगाहकविज्ञानदूषितपक्षत्वेन सहोपलम्भहेतोरसिद्धता कालात्ययापदिष्टता वा। अथ अभिन्नस्वभावतयाऽवधारितः; न तर्हि परात्मा ,15 'परात्मा च अभिन्नस्वभावतयाऽवधारितः' इति च व्याघातः । किंच, अभिन्नस्वभावतया यदि प्रागेवाऽवगाहितः; तदा किं तत्र सहोपलम्भसाधनेन प्रयोजनम् ? निष्पादितक्रिये कर्मणि साधनं सा[ध?]नन्यायमतिपतति । ___अथ अनवधारितदेहः स परात्माऽस्तीति कथं जानीषे ?20 न च अवधारितानवधारिताकारयोः एकत्वं बहुविदो वदन्ति । अनवधारिताकारैकत्वे च ज्ञानस्याप्यसंवेदनं प्रसक्तम् । अपि च सहोपलम्भः किं ज्ञानयोः, उत अर्थयोः, ज्ञानार्थयोः वा ? तद्यदि ज्ञानयोः सहोपलम्भः; तदा न द्वितीयस्याभावोऽव्यतिरेको वा सिथति, असिद्धश्च हेतुः, दृष्टा-25

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190