________________
९. ताथागतसंमतस्यानुमानस्य निरासः १०३ पक्षयसि, अर्थस्य चाऽव्यतिरेकप्रतिपादनं करोसि इति ब्याहतमपदिश्यते, अर्थाव्यतिरेको हि अर्थधर्मः ।
अथ ज्ञानस्यैव अव्यतिरेकप्रतिपादनं क्रियते; तत्किं स्वस्मात्स्वरूपाव्यतिरिक्तम् , आहोस्वित् पररूपाव्यतिरिक्तम् ? तद्यदि स्वस्मात् स्वरूपाव्यतिरिक्तं ज्ञानम् ; तदा । अविवादेन सम्बोधयितव्याः।
अथ परस्माद्व्यतिरेकप्रतिपादनं क्रियते ; स परात्मा तात्विकः, अतात्त्विको वा ? तद्यदि अतात्त्विकः; ततोऽव्यतिरिक्तं ज्ञानमपि अतात्त्विकं भवेत् ।
अथ तात्त्विकः; सोप्यवधारितदेहो वा , अनवधारितदेहो10 घा? तद्यदि अवधारितदेहः; स किं भिन्नाकारतया अवगतः, अभिन्नाकारतया वा ? यदि भिन्नाकारतया अवधारितः; तदा भिन्नाकारावगाहकविज्ञानदूषितपक्षत्वेन सहोपलम्भहेतोरसिद्धता कालात्ययापदिष्टता वा।
अथ अभिन्नस्वभावतयाऽवधारितः; न तर्हि परात्मा ,15 'परात्मा च अभिन्नस्वभावतयाऽवधारितः' इति च व्याघातः । किंच, अभिन्नस्वभावतया यदि प्रागेवाऽवगाहितः; तदा किं तत्र सहोपलम्भसाधनेन प्रयोजनम् ? निष्पादितक्रिये कर्मणि साधनं सा[ध?]नन्यायमतिपतति । ___अथ अनवधारितदेहः स परात्माऽस्तीति कथं जानीषे ?20 न च अवधारितानवधारिताकारयोः एकत्वं बहुविदो वदन्ति । अनवधारिताकारैकत्वे च ज्ञानस्याप्यसंवेदनं प्रसक्तम् ।
अपि च सहोपलम्भः किं ज्ञानयोः, उत अर्थयोः, ज्ञानार्थयोः वा ? तद्यदि ज्ञानयोः सहोपलम्भः; तदा न द्वितीयस्याभावोऽव्यतिरेको वा सिथति, असिद्धश्च हेतुः, दृष्टा-25