________________
१०२
तत्त्वोपप्लवसिंहे
[ $ १४. बाह्यार्थविलोपायोपयुक्तस्य सहोपलम्भसाधनस्य विकल्प्य दूषणम् । ]
'
यदप्युक्तम् - 'स्वसंवेद्यत्वे सहोपलम्भाद् विज्ञानार्थयोरैक्यम् एतदप्यपनीतं द्रष्टव्यम्, स्वसंवेद्यत्वाऽसंभवादेव । न च सहोपलम्भाद् अर्थस्याऽभावः सिद्ध्यति अव्यतिरेको वा । सहोपलम्भो हि ज्ञानैकधर्मः, अथैकधर्मः, उभयधर्मो वा ? तद्यदि ज्ञानैकधर्मः तदा सहशब्दार्थो नोपपद्यते । ज्ञानैकधर्मत्वे च ज्ञानस्यैवास्तित्वस्थापकं नार्थस्य व्यतिरेकाभावावेदकं सहोपलम्भसाधनम् अतद्धर्मत्वात् । अथ अथैकधर्मः सहो10 पलम्भ:; अत्रापि सहशब्दार्थो वक्तव्यः । अथैकधर्मत्वे वा अर्थस्यैव सत्तां व्यवस्थापयति, ततश्च विपरीतसाधनाद् विरुद्धः ।
अथ उभयधर्मः कथमुभयधर्मत्वे अन्यतरलोपः ? अन्यतरलोपश्चेत्; नोभयधर्मता उपपद्यते । ' उभयधर्मता च अन्य15 तरलोपश्च इति व्याहतमपदिश्यते । उभयधर्मत्वे च 'अर्थस्यैव विलोपो न ज्ञानस्य ' इत्यत्र नियामकं वक्तव्यम् । तच्च नास्ति । न च उपलम्भोऽन्यतरसद्भावं व्यावर्त्तयति, सद्भावेऽपि दृष्टत्वात् यथा ज्ञाने ।
अपि च कस्यात्र पक्षीकरणम् - किं विज्ञानस्य, उत 20 अर्थस्य ? तद्यदि ज्ञानं पक्षयसि तस्य किं साध्यते - अभाव:, अव्यतिरेको वा ? तद्यदि अभावः ; स किं ज्ञानस्य, उत अर्थस्येति ? यदि ज्ञानस्य तदा अभ्युपेतहानम्, हेतोश्च पक्षधर्मता न लभ्यते । अथ अर्थस्य ; तदा असम्बद्धत्वम् - ज्ञानं पक्षयसि अर्थो नास्तीति व्याहतमपदिश्यते, सहोपलम्भस्य 25च व्यधिकरणत्वम् ।
अथ अव्यतिरेकः साध्यते ; स किं ज्ञानस्य, आहोस्विद् अर्थस्य ? तयदि अर्थस्य तदाऽसम्बद्धाभिधातृत्वम् ज्ञानं