________________
९. ताथागतसंमतस्यानुमानस्य निरासः ।
१०१
देवदत्तवेद्यः सोऽर्थः स्यात्, न चैतदुपपद्यते । तथा खसन्ततिपतिते परोक्षज्ञाने जातेऽर्थो न वेद्यः स्यात् । अथ ज्ञानान्तरविदितमर्थस्य वेदनम्: तदपि ज्ञानान्तरविदितम् इत्यायातमान्ध्यं जगतः । अथ स्वसंविदितं तदर्थस्य वेदनम्: ततश्च सहोपलम्भाद् एकोपलम्भतो वा बाह्यार्थविलोपः प्राप्तः " । 5
तदेतदयुक्तम् । यत्तावदुक्तम्- 'ज्ञानान्तर विदितं यदि ज्ञानम् अर्थस्य वेदनं तदा अनिष्ठा प्राप्नोति । एतदनभ्युपगमेनैव पर्युदस्तम् । अपि तु अविदितमेव ज्ञानम् अर्थस्य वेदनम् । ननु अजातेऽपि ज्ञाने अर्थो वेद्यः स्यात् ; न वेद्यः, वेदनस्याभावाद् अर्थो न वेद्यते, न तु वेदनवेदनस्याभावादर्थो न वेद्यते । 10
यद्भ्यन्यदुक्तम्- 'सन्तानान्तरजाते च ज्ञाने सोऽर्थो वेद्यः स्यात् ' ; तद्व्ययुक्तम्, देवदत्तसन्ततिपतिते जाते देवदत्तस्य सोsर्थोऽपरोक्षः, न तु सन्तानान्तरपतिते ज्ञाने, अन्यथा हि सन्तानान्तर पतितं विज्ञानं स्वसंविदितरूपं जातम् । तस्मिन् जाते सोऽर्थी देवदत्तस्याऽपरोक्षः स्यात् ।
15
अपि च, रूपज्ञानं किं रूपगृहीत्यात्मकम्, आहोस्विद् अगृहीत्यात्मकम् ? तद्यदि रूपगृहीत्यात्मकम् ; तदा गृहीतमेव रूपं ज्ञानं ज्ञानान्तरवेद्यं भवतु स्वसंवेद्यं वा, न ज्ञानग्रहणपुरस्सरमर्थस्य ग्रहणम् ।
अथ रूपगृहीतिस्वभावकं न भवति रूपज्ञानम् ; एवं तर्हि 20 स्वसंवेद्यं भवतु व्यतिरिक्तसंवेदक संवेद्यं वा भवतु अवेद्यं वा, न रूपस्य प्रत्यक्षता, यथा रसज्ञानस्वसंवेद्यत्वेऽपि न रूपस्य प्रत्यक्षता तद्वत् रूपज्ञानसद्भावेऽपि न रूपस्य प्रत्यक्षता रूपगृहीतिस्वभावतयाऽनुपपत्तेः ।
१ अत्रानुस्वारः पश्चाल्लुप्ती दृश्यते ।