________________
१००
' तत्त्वोपप्लवसिंहे
सत्त्वे किमायातम् ? अथ तस्यां बुद्धौ घटो [ना]वभाति तेन तस्याऽसत्त्वम् ; अनया भङ्गया नीलादेरपि असत्त्वमापद्यते ।
अथ स्वकायव्यतिरिक्तार्थालम्बनया घटो विवेच्यते; किं [घटालम्बनया] घटो विवेच्यते, घटव्यतिरिक्तार्थालम्बनया वा? इतद्यदि घटालम्बनया विवेच्यते ; तत्रापि विवेचनार्थो वक्तव्यः। तया किं क्रियते-किं घटस्थाऽसत्त्वं प्रद्योत्यते, आहोस्वित् सत्त्वम् , उभयं वा, न किंचिद्वा? तद्यदि असत्त्वम् ; तदयुक्तम् , नहि अन्यविषया सती एतस्य प्रबोधिका भवितुमर्हति अतिप्रसंगात्, न जातु रूपविषयविज्ञान(नं) रसस्थापनाय अलम्। 10 अथ सत्त्वं प्रद्योत्यते ; तथापि सत्त्वम्। स(सं)वृतिसत्त्वे वा नीलादेरपि संवृतिसत्त्वप्रसंगः। अथ उभयं प्रतिभाति; न, तभावस्य अविषयत्वात् । यथा विज्ञानस्य विषयतां न याति तथा प्रागेव प्रपश्चितम् । किंच, उभयं प्रद्योतयन्त्या भावोऽपि प्रद्योर्तितस्तया। तत्प्रद्योतने च कथं घटस्य संवृतिसत्त्वम् ? 15 अथ न किंचिदपि प्रद्योत्यते तया; कथं तर्हि घटविषया
सा अपदिश्यते ? अथ घटभिन्नार्थविषया सा; तत्र वर्तमाना न कुम्भस्य अस्तित्वविधायिका, न व्यावर्तिका।
अथ तस्यां बुद्धौ कुम्भो न प्रतिभाति तेन तस्य संवृतिसत्त्वम् । यद्येवम्-बुद्धिविषयोऽपि बुद्ध्यन्तरे न प्रतिभाति, 20तस्याप्यायातं संवृतिसत्त्वम् । सर्वज्ञानानि च इतरेतरज्ञाने न प्रतिभान्ति - सर्वेषां संवृतिसत्त्वं प्राप्तम् । न चैतदभ्युपगम्यते।
[$ १३. विज्ञानवादिना साधितस्य बाह्यार्थविलोपस्य निरास::]
यदप्यन्यत्साधनमपदिष्टं बाह्यार्थापहवे - " न किल विज्ञानमसंविदितम् अर्थस्य वेदनम् । यद्यविदितमर्थवेदनं तदाऽ25जातेऽपि ज्ञानेऽर्थों वेद्यः स्यात्, सन्तानान्तरज्ञाने च जाते
१ -या-घृष्टम्