________________
ताथागतसंमतस्यानुमानस्य निरासः
तद्यदि विज्ञानोत्पादन समर्थमुत्पन्नं न गृहयते ; तदयुक्तम्, यदि विज्ञानोत्पादन समर्थमुत्पन्नं घटजातम्, तदवश्यं गृहयते अन्यथा नीलस्याप्यग्रहणं स्यात् । अथ विज्ञानजनकोत्पन्नस्याग्रहणम् ; तदा नीलस्याप्यनया वृत्त्याऽग्रहणे तस्याप्यपरमार्थसत्त्वं स्यात् ।
९९
अथ अनुत्पन्नघटजातं न वेद्यते तेन तस्य अपरमार्थसत्त्वम: नील-झाने अपि अनुत्पन्ने न वेद्य ( ये ) ते तयोरपि अपरमार्थसत्वमापद्यते ।
5
अथ अवरुरणे घटे घटान्तरं न प्रादुर्भवति विज्ञानजनकं कपालावस्थायाम् ; यद्येवं निर्विकल्पके रूपज्ञाने नष्टे नान्यन्नि - 10 विकल्पकं रूपज्ञानं जायते सविकल्पकावस्थायाम् । तथा, स्थूले नीले नष्टे नान्यत् स्थूलं नीलान्तरं भवति सूक्ष्मनीलोत्पादकाले | अथ तत्र नीलरूपताऽनुगता ज्ञानरूपता वाऽनुगता ; यद्येवम् इहापि कपालघटयोः स्वलक्षणरूपताऽनुगता ।
यदप्युक्तम् - " धिया च न सा - धिया बुद्धा विवे- 15 च्यमाने न सा घटबुद्धिर्भवति नीलबुद्धिस्तु भवति " ; तदेतदयुक्तम्, किंभूतया बुद्धया विवेच्यते - किं निरालम्बनया, आहोस्वित् सालम्बनया ? तद्यदि निरालम्बनया विवेच्यते : तदा विवेचनीयार्थी वक्तव्यः । यदि च निरालम्बनया विवेच्यमानस्य असत्त्वम् ; तदाऽनया रीत्या नीलादेरप्य सत्त्वमापनी 20 पद्यते । न च निरालम्बनमतिरस्ति ।
अथ सालम्बनया घटो विवेच्यते सा किम् आत्मालम्बना, आहोस्वित् स्वकायव्यतिरिक्तालम्बना ? तद्यदि स्वकायालम्बना सती घटस्य विवेचिका; तदा विवेचनीयार्थी वक्तव्यः । यदि नाम स्वकायमात्रावभासा समुत्पन्ना ; घटस्याs-25