SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ९८ तत्त्वोपप्लवसिंहे [ $ ११. अवयविनिराकरणे प्रयुक्तस्य 'सर्वावयवग्रहणेन' इत्यादि विकल्पजालस्य निरास: ] यदप्युक्तम् - " किं सर्वावयवग्रहणेन अवयवी गृहयते, किं वा कतिपयावयवग्रहणेन गृहयते ? यदि च सर्वावयव5 ग्रहणेन गृहयते तदा मध्यभाग- परभागाऽग्रहणे अवयव्यग्रहणप्रसंग: । अथ कतिपयाऽवयवग्रहणे अवयविग्रहणमभ्युपगम्यते ; तदा करांह्निग्रहणे अवयविग्रहणं स्यात् । अथ अवयवग्रहणमन्तरेण अवयविग्रहणम् तदा सर्वदा ग्रहणं स्यात् । " तदेतत् सर्वमयुक्तम्, न सर्वावयव ग्रहणपूर्वकमवयविग्रहणम्, 10 नापि कतिपयावयवग्रहणपूर्वकमवयविनो ग्रहणम्, अपि तु तद्देहेन्द्रियसन्निकर्षा लोकादिसाकल्ये सति उपलम्भः । अन्यथा हि अवयवग्रहणपूर्वके ग्रहणेऽभ्युपगम्यमाने अवधत्र्यादेरनुपलम्भः स्यात् । [$ १२. अवयविनिराकरणपराया: ' यत्र भिन्ने न तद्द्धिः ' इत्यादियुक्तेः खण्डनम् । ] अवयविनिराकरणपरं साधनम् - {{ यत्र भिन्नेन तद्बुद्धिर्धिया च न सा । तद् घटं तु संवृतिसत् परमार्थसदन्यथा 15 यदप्यन्यदुक्तम् - 35 तत्र यदि अवरुरणे घटे घटबुद्धिर्न भवति घटस्याऽपर20 मार्थसत्त्वम् : नीलेऽपि प्रत्यस्तमिते नीलबुद्धिर्न भवति नीलस्वाऽस्तमितत्वात् तदा नीलमपि अपरमार्थसत् प्राप्तम् । तथा, विज्ञानमस्तमुपगतं न वेद्यते तदप्यपरमार्थसत् प्राप्नोति । अथ प्राक्तने विज्ञाने नीलान्तरे प्रत्यस्तमिते ज्ञानान्तरं वेद्यते नीलान्तरं च, न तु घटेऽवरुग्णे घटान्तरं वेद्यते ; तत् किम् - 25 उत्पन्नं न वेद्यते, आहोस्विदनुत्पन्नम् ? तद्यदि उत्पन्नं न गृहयते ; तत्रापि हि विज्ञानोत्पादन समर्थमुत्पन्नं न गृह्यते, तद्विपरीतं वा ?
SR No.008434
Book TitleTattvopaplavasinha
Original Sutra AuthorN/A
AuthorJayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy