________________
९. ताथागतसंमतस्यानुमानस्य निरासः
पगमात् । न च अवयवानामावृतत्वेऽनावृतत्वे वा अवयव्यावृतोऽनावृतो वा। अपि तु यदा वस्त्राद्यावरणेन देवदत्तेन्द्रियघटसम्बन्धविघातः क्रियते तदा 'आवृतः' इत्यपदिश्यते। यस्य तु वस्त्रादिनाऽऽवरणेन देवदत्तेन्द्रिय-घटसम्बन्धविघातो न क्रियते , तदपेक्षया अनावृतव्यपदेशः। यथा भवत्पक्षे 5 खकारणानुत्पादकत्वेन अजनकत्वमभिधीयते, न च स्वरूपभेदमासादयति ॥छ॥ [६ १०. अवयविनिराकरण प्रयुक्तस्य चलाचलत्वकृतस्य अवयविभेदप्रसङ्गस्य
प्रत्यादेशः।] यदपि अपरमभिहितम् - चलाचलत्वसाधनम् – “ अव-10 यवे चलति चलत्यवयवी, अवयवान्तरे चाऽचलति न चलति - ततश्चलाचलत्वे अवयविनो भेदप्रसंगः "; तदेतद्युक्तम् , चलनस्य स्वयमनभ्युपगमात् । तद्भावे कथं तेन अवयवी भिद्यते ? अथ चलनं विद्यते; तर्हि इदं वक्तव्यम् - स्वविषयलक्षणम्, चलनरूपार्थस्य उत्पत्तेः । अथ परेणेष्टं चलनम् इति कृत्वा व्यप-15 दिश्यते; सत्यम् , इष्टं परेण । न तु अवयवे चलति अवयविनश्वलनमिष्टम् , ततो भिन्नत्वात् । नाप्यवयवान्तरस्याचलने अवयविनोऽचलनमिष्यते, तस्यान्यत्वात् । अपि तु चलनयुक्तः चलतीति व्यपदिश्यते । चलनविकलो निष्कम्प इत्यभिधीयते ।
अथ तदेव द्रव्यम् उपजातक्रिय चलति अनुपजात-20 क्रियं च न चलति ; सत्यम् , तदेव चलति , तदेव न चलति । नत्व(न्व)वयविनो भेदः प्रसज्यते; न प्रसंगः, चलनस्य ततोऽन्यथा(न्यत्वात्) । चलाचलव्यपदेशश्च अन्योपाधिकृतः । यथा भवत्पक्षे ज्ञानं कार्य कारणं च व्यपदिश्यते - स्वकार्यापेक्षया कारणम् , स्वकारणापेक्षया कार्यम्, न च तस्य भेदोऽस्ति,25 तथा अवयविचलाचलत्वेन न भेदो दृश्यते ।
१३ त.