________________
तत्त्वोपप्लवसिंहे
यदि तावन्नीलगुणात्मकत्वं रक्तता; तदयुक्तम्, स्फटिकपटादेरनीलात्मकत्वात् । अथ नीलगुणाधिकरणत्वं रक्तता; साभ्यनुपपन्ना , स्फटिकपटादेरवदातरूपयोगित्वात् ।
अथ नीलगुणाधिकरणद्रव्यसंयोगित्वं रक्तता; सा स्व5यमनभ्युपगता कथमवयविनं व्यावर्त्तयति ? अथ परेण इष्टा; यथेष्टा तथाऽविरोधित्वेनाऽभ्युपगता, नहि संयोगावयविनोविरोधोऽभ्युपगम्यते परेण यथाकृतकत्वाऽनित्यत्वयोः, साऽविरुहा कथमवयविनं विपर्यासयति ? रक्तताधिकरणश्व, नास्ति
च' इत्यसंगतम् । यथा-नास्ति शब्दः कृतकत्वात्-ताहगेतत् । 10 अथ रक्तता नास्ति घटस्य ; तथापि असत्वं न सिद्धयति । रक्तताभावे तु अभावः कथं भवेत् ? तदभावे विज्ञानाभावप्रसंगः।
अथ एकस्य विरुद्धावेतौ रक्तताऽरक्तताकारौ; केनेष्टौ विरुद्धतया ? नीलद्रव्यसंयोगो हि रक्तता, तदभावोऽरक्तता, 15तौ च अर्थान्तरभूतौ । न च तयोर्भेदे अवयविनो भेद् उपपद्यते , ताभ्यां तस्य भिन्नत्वात् । न च अन्यस्य भेदे अन्यस्य भेद उपपद्यते , विज्ञानभेदप्रसंगात् । यदि च रक्तारक्तभेदेन अवयवी भिद्यते तदा अवयविद्वयं स्यात्, नाऽसत्वम् , विज्ञानाऽव्यतिरेकित्वं वा। 20 अथ अविरल देशोत्पादो रक्तता नीलद्रव्यपटयोः; तथापि असत्त्वं न सिद्धयति, संस्कृतानां सत्त्याभ्युपगमात् । [ $९, अवयविनिराकरणे प्रयुक्तस्य आवृतानावृतत्वप्रसङ्गस्य खण्डनम् । ]
यचान्यत् साधनमुक्तम् - आवृताऽनावृतप्रसंगरूपम् - " एकस्मिन्नवयवे आवृते आवृतः, अनावृते अनावृतः 7 ; तदेत25दयुक्तम्। तद्यदि अवयवावरणे अवयवी आवृतोऽनावृतो वाsभ्युपगम्यते परैः, तद्वयवानामतीन्द्रियत्वेऽपि हि उपलम्भाभ्यु