________________
९, ताथागतसंमतस्यानुमानस्य निरासः ।
प्राप्तत्वात् । अथ उपलब्धिलक्षणप्राप्तमुपलभ्यते भूतलम् ; घटस्थापि उपलब्धिप्रसंगः। अथ भूतलज्ञाने घटस्वरूपं नावभाति , तेन तस्यानुपलम्भः, घटाभावव्यवहारः क्रियते; तयुक्तम् ; घटावष्टब्धेऽपि भूतले भूतलज्ञाने घटो नावभाति , तत्रापि घटाभावव्यवहारप्रसक्तिः।
5 तथा ज्ञानस्यापि उपलब्धिलक्षणप्रासस्य संवेदनं न भवेत् । ततश्च सर्वस्थासंवेदने नानुपलब्धिः , उपलब्धेरेव यतोऽनुपलब्धिः ।
यदि च भूतलायुपलब्धिरेव घटानुपलब्धिः; पिशाचादेरपि सैवाऽनुपलब्धिरस्तु। भवतु, को दोषः ? पिशाचाभाव-10 विनिश्चयः स्यात् । अथ न भवति पिशाचाभावविनिश्चयः कुम्भाभावविनिश्चयाभावप्रसंग: स्यात् । अथ निरालम्बनज्ञानं दृश्यस्याऽनुपलब्धिः; नहि भवतां पक्षे निरालम्बनज्ञानमस्ति खांशपर्यवसितत्वात् ।
अथ अदृश्यानुपलम्भः अवयव्यनुपलम्भः; सोऽपि त-15 त्सत्तां न व्यावर्त्तयति , यथा उपलभ्यमानत्वं वस्तुखरूपम् , तथा अनुपलभ्यमानत्वमपि वस्तुस्वरूपमेव । यथा कार्यस्थ स्वकारणाजनकत्वं वस्तुस्वरूपं तथा अनुपलभ्यमानत्वमपि वस्तुस्वरूपमेव। नहि स्वकारणाजनकत्वे वस्तुस्वरूपमतिवर्तते । तथा अवयव्यपि कार्याजनकत्वेऽपि न स्वरूप हास्यति , स्वहे-20 तोरेव कार्याजनकात्मकस्योत्पत्तेः। [$ ८. अघयविनिराकरणे प्रयुक्तस्य रक्तारक्तत्वप्रसञ्जनरूपस्य
साधनस्य निरास: ।] यदपि साधनेमन्यदुपदिष्टम् - रक्तारक्तप्रसंगरूपम् । तदप्यसत्, रक्तता नाम का अवयविन: ? किं नीलगुणात्मकत्वम् ,25 आहोस्वित् नीलगुणाधिकरणत्वम्, नीलगुणाधिकरणद्रव्यसंयोगित्वं वा, तदविरलदेशोत्पादो वा ?