________________
तत्त्वोपप्लवसिंहे
[ $ ६. प्रसङ्गाद् विज्ञानवादिकृतावयविनिराकरणस्य प्रतिवादः। ]
थापि युक्तिरपदिष्टा - विज्ञानमात्रस्थितायक्यविनिराकरणपरा वृत्त्यनुपपत्त्यादिरूपा - " न किला अवयवी एकदेशेन वर्तते , नापि सर्वात्मना। एकदेशवृत्त्यभ्युपगमे हि
अवयविनो भेदप्रसंगः । अथ सर्वात्मना वर्तते; तर्हि अन्यत्रावृत्तिप्रसंगः" इत्यादिका ; सापि न युक्तियुक्ता। कथम् ? किम् एकदेशशब्देन अवयवी अभिधीयते, अवयवो वा ? यदि अवयव्यभिधीयते । तदा एकदेशेनैव सर्वत्र वर्त्तत इति ब्रूमः, स्वकारणान्नियमितस्य तथाभूतस्योत्पत्तेः।। 10 अथ अवयवोऽभिधीयते तदेकदेशशब्देन ; तदा न एकदेशेन अवयवी वर्तते , अव[व]स्य अवयवे वृत्त्ययोगात् । भवतु वा अवयवेषु वृत्तेरभावोऽवयविनः , तथापि असत्त्वं न सिद्धयति , तद्देहोपलम्भस्य तदस्तित्वविधानपरत्वात् । यथा 'अनुदकः कमण्डलुः' इत्युक्ते सति उदककमण्डलुसम्बन्धा15भावः प्रतीयते, न तु कमण्डलोरभावः , तदुदकस्य वा ।
[७. प्रसङ्गादनुपलब्धिपदार्थस्य विचारः।] अथ अवयविन उपलब्धिरेव नास्ति; सा किं दृश्यानुपलब्धिः, आहोस्विद् अदृश्यानुपलब्धिः ? यदि दृश्यानुपलब्धिः; सा नोपपद्यते । दृश्यशब्देन किमपदिश्यते ? उपलब्धिलक्ष20णप्रासोऽर्थोऽभिधीयते । उपलब्धिलक्षणप्राप्तिश्च प्रत्ययान्तर
साकल्यं खभावविशेषश्च । एतचेद् विद्यते; कथमनुपलम्भः ? उपलब्धिकारकसाकल्ये सति उपलब्ध्या भवितव्यम् , नानुपलब्ध्या, तत्खभावनिबन्धनत्वात्तदुपलब्धेः । उपलब्धिलक्षणप्रातस्य यदि अनुपलम्भः, अनुपलब्धिलक्षणप्राप्तस्य तर्हि उप25लम्भः स्यात्, अनिष्टं चैतत् ।
यदि च घटविविक्तभूतलोपलम्भ एव घटस्थानुपलम्भः; तदा भूतलस्याप्युपलम्भो न भवेत्, तस्याप्युपलब्धिलक्षण