________________
९. ताथागतसंमतस्यानुमानस्य निरासः ।
अथ सामान्यस्खलक्षणाकारद्वयं प्रतीयते; एवं तर्हि अन्योन्यविलक्षणी सामान्यस्खलक्षणाकारौ प्रतीयेते । ततश्च न वक्तव्यम् – “दृश्यविकल्पा(ल्प्या)वर्थावेकीकृत्य तथ्यवसायेन प्रवर्त्तते” इति । यदि च विविक्तमाकारवयं प्रतिभाति ; तदा स्खलक्षणविषयमनुमान प्रसक्तम् । तद्विषयत्वे मानयोर्भेदकारणं 5 वक्तव्यम् । सर्वोपाख्याविनिर्मुक्तस्य च सामान्यस्य प्रतीयमानत्वं नोपपद्यते ।
अन्यच्च , धूमोत्पादिते अग्निविज्ञाने अनग्निव्यवच्छेदरूपं सामान्यं प्रतिभातीति व्यपदिश्यते, अजलव्यवच्छेदेन प्रतिभातीति किं नाभ्युपगम्यते ? नाऽजलव्यवच्छेदेन जन्यते, नापि10 अनग्निव्यवच्छेदेन , तदनुत्पत्ती प्रतिकर्मनियमानुपपत्तिः ।
अथ निर्विषयम् आनुमानिकं ज्ञानम् ; तयुक्तम् , स्वांशविषयत्वात् । नहि भवतां पक्षे निरालम्बनं किंचिद् विज्ञानमस्ति, आत्मावगाहकत्वेनोत्पत्तेः। यदि च निरालम्बनं ज्ञानम् ; क प्रवर्त्तत निवर्सेत वा पुरुषः ? अगतिः स्यात् । अथ दहनेन15 तदुत्पादितम् इति कृत्वा दहनान्तिकमुपसर्पति; एवं धूमज्ञानोत्पादेऽपि यायात् ।
अथ खांशविषयमनुमानम् ; तदा प्रत्यक्षानुमानयोर्भेदानुपपत्तिः, प्रतीयमानज्ञानस्य स्खलक्षणात्मकत्वात् ।
[$ ५. ज्ञानयोः हेतुफलभावावधारणस्याशक्यत्वप्रतिपादनम् । ] 20
अथ ज्ञानयोः हेतुफलभावावधारणं क्रियते; तदप्ययुक्तम् , ज्ञानयोरपि हेतुफलभावावधारणं न शक्यते कर्तुम् - कार्यज्ञानं हि खसंवित्पर्यवसितं न ज्ञानान्तरमात्मसात्करोति। तदकरणे 'केन निव(वर्तितं मम स्वरूपम्' इत्येतत् कथं वेत्ति , तद्भिन्नज्ञानस्य पिशाचतुल्यत्वात् ? तत्र(न) ज्ञानं ज्ञाना-25 न्तराद् भिद्यते । तद्भदे कथं हेतुफलभावः, स्वात्मनि क्रियाविरोधात् ?