________________
तत्त्वोपप्लवसिंहे
यदपि " दृश्यविकल्प्यावर्थावेकीकृत्य तदध्यवसायेन प्रवर्तते " इत्युक्तम् । दृश्यं बाह्यं रूपादिखलक्षणम् , वि. कल्प:(प्यः) वुद्धिसमारोपिताकारः । किं पुनेरनयोः एकीकरपाम् ? किम् - अभेदेन उत्पादनम् , किंवा अभेदेन अवधारणम् , 5आहोस्वित् संघटना क्रियते ? तद्यदि अभेदेन उत्पादनम् ; सदसतोरभेदेन उत्पादनं हतत्रपाहते नान्यो वक्तुमर्हति । अभेदेनोत्पादने च भावस्याभावप्रसङ्गः, सामान्यस्य वा वस्तुत्वं प्राप्नोति, तद्वस्तुत्वे स्वलक्षणविषयमनुमानम् । प्रत्यक्षाऽनुमानयोर्भेदबीजमन्वेष्टव्यम् । 10 अथ एकीकरणम् - एकत्वेन प्रतीयमानत्वं दृश्यविकल्प्ययोः; तदुक्तं(तदयुक्तम्), किम् एक एव आकारः प्रतिभाति, आहोस्विद् आकारद्वयम् ?
तद्यदि एक एव आकारः प्रतिभाति; तल्कि दृश्याकारः, आहोस्विद् विकल्पाकारः ? तद्यदि दृश्याकारः प्रतिभाति; तदा 15स्वलक्षणविषयमेव अनुमान प्रसज्यते।
अथ विकल्पाकारः प्रतिभाति; तस्य सर्वोपाख्यारहितत्वेन प्रतिभासाविषयत्वाद्वाप्येतद् वक्तव्यम् - स्वलक्षणमेष
..
..
20 ... काराव्यतिरिक्ताव्यतिरिक्तो वा ? यद्यव्यतिरिक्तः तदा स्वलक्षणविषयमनुमान प्राप्तम् । समारोपितं च सामान्य प्रतीयते इति न वक्तव्यम् । तात्त्विकं च सामान्यं प्रसज्यते। "दृश्या]तात्त्विकत्वप्रसङ्गो वा । अथ व्यतिरिक्तो विकल्पाकारः: तर्हि न वक्तव्यम् - तदारोपद्वारेण प्रतीयते स्वल25क्षणविकल्पाकारान्तरितत्वात् ।
अथ घटना क्रियते स्वलक्षणेन सामान्यस्य; तदसत्, सदसतोर्घटनाऽयोगात् । सतोर्घटना दृष्टा यथा चक्षुर्घटयोः । १.' एवं आकार: ' इत्यतः व्यतिरिक्ताव्यतिरि' इत्यन्तं पृष्टम् । २. घटना - घृ० ।