________________
९. ताथागतसंमतस्यानुमानस्य निरासः ।
अन्ये तु वदन्ति - "स्खलक्षणमेव स्पष्टाकारम् । यदि नाम प्रत्यक्षग्राहयं स्वलक्षणं विस्पष्टम् अनुमाननायम् अविस्पष्टम् , स्वलक्षणस्यैवायं भेदः । एकोऽग्निः प्रत्यक्षजननयोग्यः अन्योऽग्निः अनुमानजननयोग्यः । प्रत्यक्षजननयोग्येऽग्नौ आनु मानिकं ज्ञानं यदि भवति - भवति प्रत्यक्षानुमानयोर्भेदः कदा-5. चित् , यावता आनुमानिकज्ञानजननयोग्योऽग्निः अन्य एव । अथ स्वलक्षणविषयसाम्याद् अभेद्परिकल्पना प्रत्यक्षानुमानयोः; यद्येवम् - गन्धरसादिज्ञानानां स्वलक्षणविषयसाम्यात् सर्वेषामभेदः प्रानोति - सर्व गन्धज्ञानं रसज्ञानं वा वक्तव्यम् । अथ खलक्षणविषयत्वे सत्यपि अवान्तरभेद-10 विक्षया गन्धादिज्ञानमपदिश्यते; यद्येवम् - सत्यपि अग्निविषयत्वे प्रत्यक्षानुमानज्ञानयोः अवान्तरभेदविवक्षया प्रत्यक्षानुमानज्ञानव्यपदेशः । अथ करणभेदेन गन्धादिज्ञानानि भिद्यन्ते : तदा प्रत्यक्षानुमानयोः करणभेदोपपत्तेः भेदोऽस्तु । एवं च यदुक्तम्- " स्खलक्षणविषयानुमानं भवति " तन्मूढो-15 क्तम् , अग्निप्रपञ्चस्य प्रतिभासनात् । .. अथ वस्तुभूतसामान्यविषयम् ; न , तदभावाद् विज्ञानजनकत्वासंभवाच । न च जनकत्वमन्तरेण विषयार्थ उपलभ्यते ।
अथ अवस्तुभूतसामान्यविषयम्। तदुक्तम् – “ वैकल्पिकं20 सामान्य बुद्धयुपदर्शितरूपम् ” एतदपि न युक्तम् , अविद्यमानं सामान्यं कथं बुद्धेविषयभावं प्रतिपद्यते ? किम् - सत्तामात्रेण, सहोत्पादन वा, जनकत्वाऽऽकारार्पकत्वेन वा ? सर्वस्यासंभवे विषयार्थो भणनीयः । यदि च जनकत्वाद्यभावेऽपि बुद्धौ प्रतिभाति सामान्यम् ; तदा रूपादेरपि जन-25 कत्वं न कल्पनीयम् - रूपं विज्ञानमकुर्वत् प्रत्यक्षं स्यात् ।