________________
तस्वोपप्लवसिंहे
इतोऽपि दहनधूमयोर्हेतुफलभावावधारणं न शक्यते कर्तुम् । धूमज्ञानसत्ताकाले धूमसत्ता न विद्यते ज्वलनज्ञानसत्ताकाले ज्वलनसत्ता न विद्यते। न(ना)विद्यमानस्या(स्य) ग्रहणं नाम, अन्यथाग्राहि(थाऽग्राहय)केशोण्डुकस्यापि ग्रहणं 5स्यात् । ___ अथ केशोण्डुकस्य सर्वदा सत्ता न विद्यते - न ज्ञानकाले नापि पूर्वम् , दहनादेस्तु पूर्व सत्ता विद्यते । यदि नाम 'ज्ञानकाले नास्ति पूर्व तु विद्यते' इति ; सुव्याहृतमेतत् ! गृहीतिकाले नास्ति गृहीतेस्तु पूर्वमस्ति, गृहीतिमन्तरेण सुस्थितानि 10वस्तूनि ! अथ ज्ञानजनकत्वेन पूर्व विद्यते; तज्जनकत्वं केनाऽव
गम्यते, विज्ञानस्य खतनुद्योतकत्वेन पर्यवसितेः ? ततश्च पिशाचकल्पौ दहनधूमाकारी, तयोर्हेतुफलभावावधारणाय न प्रत्यक्षम् ।
अथ ज्ञानावलीढतदाकारान्यथानुपपत्त्या तयोः स्वरूप15व्यवस्था क्रियते; तदयुक्तम्, आकारो हि प्रागेवापोदितः, न च आकारार्थयोः प्रतिबन्धोऽवधारितः, तदनवधारणे कथम् आकारोऽथ गमयति ? एवं तावदर्थजन्यत्वं न शक्यते ज्ञानस्यावधारयितुम् । नाप्यर्थस्य अर्थजन्यत्वम् । एवं हेतुफलभावानवधारणात् कथं धूमं दृष्ट्वा अनुमिनोति अग्निम् । 20 [$४. विकल्प्य विषयासंभवदर्शनेनानुमानस्य निरास:।]
अपि च , आनुमानिकं ज्ञानं किंविषयम् - किं अग्यादिखलक्षणविषयम्, आहोस्विद् वस्तुसू(भू)तसामान्यविषय[म] , [अवस्तुभूतसामान्यविषयं वा], विकल्पविषयम्, खांशविषयम् , निर्विषयं वा ? 25 तद्यदि स्खलक्षणविषयम् ; तदा प्रत्यक्षानुमानयोर्भेदो न प्रामोति, खलक्षणविषयत्वेन स्पष्टाकारतानुमानज्ञानस्यापि प्रसज्यते, 'अस्पष्टाभम्' च भवद्भिः प्रतिपद्यते न त्वन्यैः ।