________________
१०४
तत्त्वोपप्लवसिंहे
न्तश्च साधनविकलः - द्विचन्द्रज्ञाने [न] ज्ञानयोः सहोपलभोस्ति । अथ अर्थयोः ; तदाऽसिडो हेतु:, न चान्यतरार्थलोपः । लोपे वा अन्यतरसिद्धौ बाह्यार्थव्यवस्थितिः । अथ ज्ञानार्थयोः सहोपलम्भः ; तथापि हेतोरसिद्धता, दृष्टान्तश्च साधनविकलः ।
1
अथ सहोपलम्भात् इत्यस्यायमर्थ: - एकोपलम्भात् । एकोपलम्भेन ज्ञानार्थयोरेकता उपपाद्यते ।
ननु एकोपलम्भाद् इत्यस्य कोऽर्थः - किं ज्ञानार्थयो: एक एव उपलम्भ:, उत एकस्यैवोपलम्भ:, आहोस्विद् एकेनैव उप10लम्भ इति । तद्यदि ज्ञानार्थयोः एक एव उपलम्भ इति न तर्हि अर्थाभावसिद्धिः । संवेद्यमानत्वेन विज्ञानसत्तावद् अर्थसत्ताऽपि सुस्थिता । असिडोच्ययं हेतुः नीलादावनेकोपलम्भसंभवात् । अनैकान्तिकोष्ययं हेतुः यस्मादनेकनीललोहिताद्याकाराणाम् एकोपलम्भेऽपि नान्यतमव्यावृत्तिः अभेदो वा दृष्टः ।
15 अथ एकस्यैव उपलम्भः एकोपलम्भः तदेकं किं विज्ञानात्मकम्, आहोस्विद् ज्ञानात्मकम् ? तद्यदि विज्ञानात्मकम् ; तदसत्, नील मणि- कुम्भादेर्विज्ञानोत्पादकत्वेन खरूपमवधार्यते न तु विज्ञानात्मतया यस्माद् 'अनेन उत्पादितं विज्ञानम्' 'अत्र ममोत्पन्नम् ' इत्येवं प्रवदन्ति सन्तः न तु 'इदमेव ज्ञानम्' इत्येवं 20 वक्तारो भवन्ति । यथा हि वस्तुत्वेन प्रतीयमानं नील- जलादिकम् एकोपलम्भानुरोधेन नावस्तुस्वेन प्रतिपद्यते तथा अविज्ञानात्मकतया अध्यवसीयमानं न विज्ञानात्मतया व्यवस्थापयितुं पार्यते, अन्यथा वस्तुत्वहानिप्रसंगात्, अथ (था) विज्ञानात्मतया तदेकमवधार्यते तदेष्टसिद्धेरसिद्धि:, सिद्धसाध्यता च स्यात् ।
25 अध एकेनैवोपलम्भ:; सोप्यनुपपन्न एव, जलचन्द्रार्कादिः बहुभिरुपलभ्यमानत्वात् ॥ छ ॥
5