________________
९. ताथागतसंमतस्यानुमानस्य निरासः । १०५ [ $ १५, अवयविनिराकरणद्वारा स्थापितस्य क्षणिकत्वस्योत्थापनम् । ]
यदप्युक्तम् - "अवयविनिराकरणे क्षणिकत्वम् - यदि हि किल अक्षणिको भवति भावः तदा भवति अवयवाऽवयविभावः, तदभावे तत्व(तस्याऽ)भावात् । अथ कथं तस्याभावः? स्थायिनोऽर्थक्रियाऽकरणात् । तदेव कथम् ? कथ्यते - किं येन 5 खभावेन आद्यामर्थक्रियां करोति किं तेनैव खभावेन उत्तरोत्तराण्यपि कार्याणि करोति, अथ समासादितस्वभावान्तरः करोति ? यदि तेनैव करोति; तदा एककालयोगित्वं सर्वकार्याणां प्रसज्यते, क्रमकरणं हीयते तस्य । न यकस्वभावायत्तो वस्तूनां कालविकल्पो नाम । विकल्पे वा एकखभावायत्ततामति-10 कामन्ति । अथ स्वभावान्तरापत्तौ जनयति ; स्वभावान्तरापत्तिश्च पूर्वाकारपरिहारनान्तरीयकरूपा । तदपरित्यागे न आकारान्तरानुप्रवेशोऽस्ति, आकारयोः एकत्वायोगात् । अथ पूर्वाकारपरिहारः; तदा एतदेव क्षणिकत्वं यत् पूर्वापरकार्यकारणम्। "
तदेतदयुक्तम् । यदि क्रमेण कार्य न करोति युगपदपि कथं15 . करोति ? एकं नीलस्खलक्षणमनेकं विज्ञाननीलादिकं कार्य करोति इति वः सिद्धान्तः। तदनेक कार्य किम(किमेके)नाकारेण करोति, आकारभेदेन वा ? तद् यद्येकेन करोति; तदाऽऽयाता सर्वकार्याणामेकाकाररूपता एकत्वम् , एकस्य चानेकत्वमापद्यते । अथ आकारभेदेनानेककार्य जनयति : आकारभेदात्20 तदेकत्वं व्यावर्त्तते, यव्यावृत्तौ नैकमनेकं कार्यं करोति ।
अथ इत्थंभूतं स्वहेतुभ्यस्तदुद्गतं यदनेकयुगपत्कार्यकरणात्मकम् । यद्येवं ममापि क्रमभाव्यनेककार्यकरणात्मकं समुद्रुतं स्वहेतुभ्यः। 1४ त.