________________
तत्त्वोपप्लवसिंहे
[$ १६. क्षणिकत्वस्थापनाय प्रयुक्तस्य विनाशहेत्वभावस्य विनाशं
विकल्प्य दूषणम् । यदप्यन्यदुक्तम् - " विनाशहेत्वभावात् क्षीणको भावः" तदनुपपन्नम् ; कथम् ? ते इदं प्रष्टव्याः - विनाशोस्ति वा, न वा? उतद्यदि नास्ति; कस्य सहेतुकत्वं निर्हेतुकत्वं वा विचारयन्ति मनीषिणः । नहि वन्ध्यासुतस्याभावे सहेतुकत्वं निर्हेतुकत्वं वा विचारयन्ति सन्तः। ___अथ विद्यते विनाशः; स वस्तुस्वभावानुबन्धी वा, विच्छिन्नोत्पन्नो वा? तद्यदि वस्तुस्वभावानुवन्धी; न तर्हि 10निर्हेतुकत्वम् , वस्तुनो वा निर्हेतुकत्वप्रसंगः, सत्स्वभावानुबन्धित्वव्यतिरेकप्रसंगो वा। ___ अथ व्यतिरिक्तः तस्य निर्हेतुकत्वे कोपपत्तिः ? सहेतुकत्वे नियतदेशकालयोगित्वेनोपलब्धिः। यदि नाम निर्हेतुको विनाशः वस्तूनां क्षणिकत्वे किमायातम् , वस्तुभ्योऽर्थान्तर15त्वात् ? [$ १७. क्षणिकत्वोपयोगिनः विनाशनिर्हेतुकत्वस्य विकल्पपञ्चकेन
प्रतिवदनम् । ] अथ निर्हेतुकत्वे वस्तूत्पत्त्यनन्तरमात्मानं समासाद्यति विनाशः; तयुक्तम् । अत्र पंच पक्षा भवन्ति - वस्तूत्पत्तः 20पूर्वम् , सह वा, अनन्तरं वा, कालान्तरे वा भवनम् , न वा भवनम् ? तद्यदि पूर्वभवनम् ; तदा भावोद्भवानुपपत्तिः । अथ सह ; तदा भावानुपलम्भप्रसंगः । तत्सद्भावोपलम्भे वा सततोपलम्भप्रसंगः, अभावस्थाऽकिंचित्करत्वात् । तथाऽनन्तरभूतेऽपि विनाशे सततोपलम्भप्रसंग एव । अथ कालान्तरे 25भवनम् : न तर्हि क्षणिकत्वं वस्तूनां विनाशस्य निर्हेतुकत्वे सत्यपि । अथ नैव भवनं विनाशस्य तदा सर्वभावानां नित्यस्वमापद्यते, विनाशस्याऽसंभवात् ।