Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 138
________________ तत्त्वोपप्लवसिंहे [$ १६. क्षणिकत्वस्थापनाय प्रयुक्तस्य विनाशहेत्वभावस्य विनाशं विकल्प्य दूषणम् । यदप्यन्यदुक्तम् - " विनाशहेत्वभावात् क्षीणको भावः" तदनुपपन्नम् ; कथम् ? ते इदं प्रष्टव्याः - विनाशोस्ति वा, न वा? उतद्यदि नास्ति; कस्य सहेतुकत्वं निर्हेतुकत्वं वा विचारयन्ति मनीषिणः । नहि वन्ध्यासुतस्याभावे सहेतुकत्वं निर्हेतुकत्वं वा विचारयन्ति सन्तः। ___अथ विद्यते विनाशः; स वस्तुस्वभावानुबन्धी वा, विच्छिन्नोत्पन्नो वा? तद्यदि वस्तुस्वभावानुवन्धी; न तर्हि 10निर्हेतुकत्वम् , वस्तुनो वा निर्हेतुकत्वप्रसंगः, सत्स्वभावानुबन्धित्वव्यतिरेकप्रसंगो वा। ___ अथ व्यतिरिक्तः तस्य निर्हेतुकत्वे कोपपत्तिः ? सहेतुकत्वे नियतदेशकालयोगित्वेनोपलब्धिः। यदि नाम निर्हेतुको विनाशः वस्तूनां क्षणिकत्वे किमायातम् , वस्तुभ्योऽर्थान्तर15त्वात् ? [$ १७. क्षणिकत्वोपयोगिनः विनाशनिर्हेतुकत्वस्य विकल्पपञ्चकेन प्रतिवदनम् । ] अथ निर्हेतुकत्वे वस्तूत्पत्त्यनन्तरमात्मानं समासाद्यति विनाशः; तयुक्तम् । अत्र पंच पक्षा भवन्ति - वस्तूत्पत्तः 20पूर्वम् , सह वा, अनन्तरं वा, कालान्तरे वा भवनम् , न वा भवनम् ? तद्यदि पूर्वभवनम् ; तदा भावोद्भवानुपपत्तिः । अथ सह ; तदा भावानुपलम्भप्रसंगः । तत्सद्भावोपलम्भे वा सततोपलम्भप्रसंगः, अभावस्थाऽकिंचित्करत्वात् । तथाऽनन्तरभूतेऽपि विनाशे सततोपलम्भप्रसंग एव । अथ कालान्तरे 25भवनम् : न तर्हि क्षणिकत्वं वस्तूनां विनाशस्य निर्हेतुकत्वे सत्यपि । अथ नैव भवनं विनाशस्य तदा सर्वभावानां नित्यस्वमापद्यते, विनाशस्याऽसंभवात् ।

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190