Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 107
________________ ८. आत्मानुमानस्य निरासः । ___ ७५ अथ आत्मसमवायित्वेन विज्ञानम् आत्मनोऽपदिश्यते; न , तदभावात् । भवतु वा, समवाये(यो) हि अखण्डितात्मा सर्वात्मवस्त्रादिसाधारणः। ततः सर्वे चेतनाः स्युः । अथ विज्ञानोपलक्षितस्य नान्यत्र संभवोऽस्ति; तदयुक्तम् , तद् उपलक्षितस्य अन्यत्र संभवात् , तत्संभवश्च तस्य एकत्वात् । असंभवे वा समवायानेकत्वप्रसङ्गः, असमवायित्वं वाऽ षाम् । तथा, विज्ञानसमवाय आत्मनः समवायः किम् - सना मात्रेण, आहोस्विद् आत्मजनकत्वेन , तजन्यत्वेन , तत्सम वायित्वेन, आत्मस्वरूपतादात्म्यादा ? तद्यदि सत्तामात्रेण10 आत्मनः समवायोऽपदिश्यते; तदा ज्ञानसमवायसत्ताऽविशेषात् सर्वेषां ज्ञानसमवायित्वप्रसङ्गः। अथ तजन्यत्वेन : तद्युक्तम्, नहि आत्मना समवायोत्पादनं क्रियते नित्यत्वाभ्युपगमात् । अथ तज्जनकत्वेन आत्मनः समवायः; तदनुपपनम्, आत्मनो नित्यत्वात् । अथ आत्मनि समवेतः तेन15 आत्मसमवायोऽभिधीयते; तयुक्तम्, समवायान्तरानभ्युपगमात् । अथ आत्मतादात्म्येन वर्त्तत इति आत्मसमवायः उच्यते; तदा आत्मा विद्यते नान्यः समवायोऽस्ति तत्स्वभावानुप्रवेशात् । एवं विज्ञानानन्दादीनां समवायसम्बन्धेन . न नियतात्मव्यपदेश उपपद्यते। 20 अथ आत्मतादात्म्येनोपजायमानं विज्ञानानन्दादिकम् आत्मनोऽपदिश्यते; तदा विकारी प्रामोति अनया भङ्ग्या आत्मा। ततश्च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः। इतोपि आत्मा सुखादिकार्याधिकरणोऽवगन्तुं न पायंते ; किं तेनात्मना अनुपजातातिशयेन तापादि कार्य क्रियते ,25 आहोस्विद् उपजातातिशयेनापि, किं व्यतिरिक्तोपजातातिशग्रेन, अन्यतिरिक्तोपजातातिशयेन वा ? तयदि अनुप

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190