________________
८. आत्मानुमानस्य निरासः ।
___ ७५
अथ आत्मसमवायित्वेन विज्ञानम् आत्मनोऽपदिश्यते; न , तदभावात् । भवतु वा, समवाये(यो) हि अखण्डितात्मा सर्वात्मवस्त्रादिसाधारणः। ततः सर्वे चेतनाः स्युः । अथ विज्ञानोपलक्षितस्य नान्यत्र संभवोऽस्ति; तदयुक्तम् , तद् उपलक्षितस्य अन्यत्र संभवात् , तत्संभवश्च तस्य एकत्वात् । असंभवे वा समवायानेकत्वप्रसङ्गः, असमवायित्वं वाऽ षाम् ।
तथा, विज्ञानसमवाय आत्मनः समवायः किम् - सना मात्रेण, आहोस्विद् आत्मजनकत्वेन , तजन्यत्वेन , तत्सम वायित्वेन, आत्मस्वरूपतादात्म्यादा ? तद्यदि सत्तामात्रेण10 आत्मनः समवायोऽपदिश्यते; तदा ज्ञानसमवायसत्ताऽविशेषात् सर्वेषां ज्ञानसमवायित्वप्रसङ्गः। अथ तजन्यत्वेन : तद्युक्तम्, नहि आत्मना समवायोत्पादनं क्रियते नित्यत्वाभ्युपगमात् । अथ तज्जनकत्वेन आत्मनः समवायः; तदनुपपनम्, आत्मनो नित्यत्वात् । अथ आत्मनि समवेतः तेन15 आत्मसमवायोऽभिधीयते; तयुक्तम्, समवायान्तरानभ्युपगमात् । अथ आत्मतादात्म्येन वर्त्तत इति आत्मसमवायः उच्यते; तदा आत्मा विद्यते नान्यः समवायोऽस्ति तत्स्वभावानुप्रवेशात् । एवं विज्ञानानन्दादीनां समवायसम्बन्धेन . न नियतात्मव्यपदेश उपपद्यते।
20 अथ आत्मतादात्म्येनोपजायमानं विज्ञानानन्दादिकम् आत्मनोऽपदिश्यते; तदा विकारी प्रामोति अनया भङ्ग्या आत्मा। ततश्च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः।
इतोपि आत्मा सुखादिकार्याधिकरणोऽवगन्तुं न पायंते ; किं तेनात्मना अनुपजातातिशयेन तापादि कार्य क्रियते ,25 आहोस्विद् उपजातातिशयेनापि, किं व्यतिरिक्तोपजातातिशग्रेन, अन्यतिरिक्तोपजातातिशयेन वा ? तयदि अनुप