________________
७४
सत्त्वोपप्लयसिंह
शब्द्ध्वं सो वा, शब्दस्वरूपं वेति । तत्र तावत् स्वकारणसत्तासम्बन्ध-सत्ता-धर्मान्तरस्वरूपपक्षे उक्तमेव दूषणम् । __ अथ ध्वंसोऽनुमीयते; तदयुक्तम् , तेन सह सम्बन्धानवगतेः । न शब्दसत्ताकाले तद्ध्वंसोऽस्ति , तदभावान सम्बन्धा5वगतिः, एकस्य सम्बन्धानुपपत्तेः । न चाभावस्य विषयभावोऽस्ति , भावे वा शब्दलिङ्गं न भवेत् । शब्दलिङ्गसद्भावे वा विज्ञानस्य अभावो न विषयः, तदभावात् । एतेन तपनोदयोस्तमित्योर्गम्यगमकभावः पर्युदस्तो वेदितव्यः ।
[८. आत्मानुमानस्य निरास:।] 10 [६१. नैयायिकादिसंमतस्यात्मानुमानस्य निरास:!]
तथा, [आत्मा ]नुमान(न) सुखशेषा(ष)ज्ञानादिना ने संभवति, तेन सह सम्बन्धानवगमात्, तदनवगतौ च अनुमानानर्थक्यम् । किं चात्र साध्यते ? किम् - ज्ञानसुखादीनाम्
आश्रितत्वम् , आहोस्विद् आश्रयाश्रितं वा ज्ञानस्वरूपम् ? त15(अ)थाश्रितत्वं साध्यते; तदा आत्म(मा) नैवाऽवबोधितः, ततोऽन्यत्वाद् आश्रितत्वस्य । अथ आत्मा साध्यते; तदेवं भवति - अस्ति आत्मा विज्ञानात्, नच व्यधिकरणस्य गमकत्वं विद्यते । अथ आश्रितं ज्ञानस्वरूपं साध्यते; तच प्रत्यक्षेणावगतम् । अन्योऽनुमानस्य विषयो वक्तव्यः । कथं ज्ञान20सुखादि आत्मसम्बन्धित्वेन व्यपदिश्यते - किं सत्तामात्रेण,
आहो तज्जन्यतया, तजनकत्वेन वा, तत्समवायित्वेन वा, तत्स्वरूपतादात्म्यावा ? तद्यदि सत्तामात्रेण सुखं विज्ञानं वा आत्मनोऽपदिश्यते; तदा आत्मवत् सर्वे भावाश्चेतनाः स्युः विज्ञानसत्ताऽविशेषात् । तथा , सर्वे सुखिनो भवेयुः, आनन्द25सत्ताऽविशेषात् । अथ तज्जन्यतया विज्ञानमात्मनोऽपदिश्यते; तदा नयनालोकपटाः चेतनाः स्युः, तैर्जन्यमानत्वाऽविशेषात् । अथ तजनकत्वेन तस्य इति चेत् ; तयुक्तम्, न विज्ञानेन आत्मा उत्पाद्यते भवतां पक्षे, उत्पादने वा स्मरणानुपपत्तिः।