________________
७. नैयायिकाभिमतस्यानुमानस्य निरसनम् । ७३. "विशेषेऽनुगमाभाव" । विशेषो हि अनुमानैकग्राहयोऽर्थः तेन सह सम्बन्धो नावगतः। तदनवगतौ न लिङ्गात् लिङ्गा(लिङ्गि)गतिः । नच षट्पदार्थव्यतिरिक्तं धर्मान्तरमस्ति स्वयमनभ्युपगमात्, अभ्युपगमे वा अभ्युपेतहानम् । यदि च कारणपूर्वकत्वं धर्मान्तरं तदनुमीयते लिङ्गात् ; न तर्हि 5 कारणमवगतं दिगीश्वरादि ।
अथ कारणपूर्वकं कार्यमेव प्रतीयते; तदेतत् प्रज्ञामान्धविचेष्टितम् । कथम् ? तत्स्वरूपस्य प्रत्यक्षावगाहितदेहस्य किमनुमानेन ? अत्रापि तदेव उपनतम् - 'सामान्ये सिद्धसाधनम् समानं प्रत्यक्षानुमानविषयत्वे सामान्यमित्यपदिश्यते, तस्मिन्10 सामान्ये साध्यमाने साधनवैफल्यमापद्यते । किंच, यद्यनुमानादपि कार्य प्रत्येति; कारणं न केनाप्यवद्योतितं स्यात् । तदनवद्योतने कालादिव्यवहारविरहः स्यात् ।।
तथा, कारणदर्शनेन कार्यानुमानमपि न संभवति । भवतां पक्षे कारकाणां सामग्र्यं जनकम् । तचेन्न प्रत्यक्षं न च साध-15 नान्तरं विद्यते तत्स्वरूपावेदकम् । अपि च, लिङ्गग्रहणानन्तरं व्याप्तिस्मरणम् , तदनु परामर्शज्ञानम्, ततोऽनुमेयप्रतिपत्तिः । न च एतावन्तं कालं सामय्यवस्थानमस्ति । ___ अथ कारकैकदेशग्रहणे सति कार्यमनुमिमीषे; तयुक्तम् , कारकैकदेशरूप(शस्या)जनकत्वात् । जनकत्वयोगे सति20 जनकम् इत्यपदिश्यते । नच जनकत्वयुक्तस्य अनुमेयप्रतिपत्तिकाले अवस्थानमस्ति । न चाकारकं कार्य गमयति अतिप्रसङ्गात्। । [$ ४. कृतकत्वहेतुकस्यानित्यत्वानुमानस्याप्यघटमानत्वप्रदर्शनम् । ]
तथा, कृतकत्वेन अनित्यत्वानुमानमपि नोपपद्यते , अनि-25 त्यत्वं हि स्वकारणसत्तासम्बन्धः, सत्ता वा, धर्मान्तरं वा,
-
१० त.