________________
वोपप्लवर्सि
अथ निरुपचरितं प्रत्येति तत्रापि किम् - विद्यमानम्, अविद्यमानं वा ? तद्यदि विद्यमानम् तदयुक्तम्, जनकत्वयोगेन जनकमपदिश्यते, यथा दण्डयोगेन दण्डी, द्रव्यत्वयोगेन द्रव्यम् । न भवतां पक्षे जनकत्वयुक्तस्य अनेककालाउन्तरावस्थान मस्ति, कार्यानेकत्वप्रसङ्गात् । अथ जनकस्वे सत्यपि न जनयति सर्वदैवाऽहेतुः स्यात् । अथ अविद्यमानं प्रत्येति ; अविद्यमानम्, प्रत्येति च इति चित्रम् ।
७२
1
किंच, कार्य दृष्ट्वा कारणं प्रत्येति, आहो कारणपूर्वकत्यम्, कारणपूर्वकं वा कार्यम् । तद्यदि कारणं प्रत्येति ; तदा 10 एतदापद्यते - अस्ति कारणं कार्यात्, यथा अस्ति आत्मा काकस्य कायात् ।
अथ तत्कारणपूर्वकत्वं कार्यस्यानुमीयते ; तत्कारणपूर्वकत्वम् - स्वकारणस तासम्बन्धः, सता वा, धर्मान्तरं वा ? तद्यदि स्वकारणसत सम्बन्धोऽनुमीयते तदयुक्तम्, तस्य 15 प्रत्यक्षविषयत्वात् । न च प्रत्यक्षेण अवगम्यमाने अनुमानं न्याय्यम्, हेतावप्यनुमानप्रसङ्गात् । तदुक्तम् - " सामान्ये सिद्धसाध्यताम् (ता), सामान्यं समानता प्रत्यक्षानुमानविषयत्वेन अर्थस्य । "
अथ सत्ताऽनुमीयते ; साऽपि प्रत्यक्षेणावगम्यते अलमनु20 मानेन । इहाप्येतद् द्रष्टव्यम् - 'सामान्ये सिद्धसाध्यता' । अथवा सिद्धस्य विद्यमानस्य साधनम् सिद्धसाधनम् । यथा च न तौ स्तः तथा प्रागेव प्रपञ्चितम् ।
अथ कारणपूर्वकत्वं धर्मान्तरं तदनुमीयते तदपि उपलब्धिलक्षणप्रासाधिकरणस्थं प्रत्यक्षावसेयम्, न मानान्तरमा25 काङ्क्षति । न च अनुपलब्धिकारणम् आवरणदृरादि किंचिदस्ति । अनुपलब्धौ वा घटादावप्यनुपलम्भप्रसङ्गः । तदुक्तम् -