________________
७. नैयायिकाभिमतस्यानुमानस्य निरसनम् । ७१ नाऽसती । सहोत्पन्नयोरपि क्रमेण ग्रहणं दृष्टं गोविषाणयोः । अनुत्पन्नयोश्च गोत्वाऽस्तित्वयोः। तथा, पटग्रहणानन्तरं तन्तूनां ग्रहणं दृष्टम् । तथा, एकमेव ग्रहणं दृष्टम् , न च तयोर्भेदोऽस्ति, न च तयोर्हेतुफलभावः । यथा च भेदो नास्ति तथाप्रागेव प्रपश्चितम् । एवं संवेदनमपि संवेद्यात् न भिद्यते सदाकारतया, 5 . न च तयोः आकारान्तरमस्ति, एकं हि वस्तु ।
इतोऽपि हेतुफलयोर्विज्ञानं न वेदनम् , यथा उत्पन्नं विज्ञानं खसंवेदनं न भवति, विज्ञानाकारातिरिक्ताकारान्तरविरहात्। अथ क्रियातिरेकापायेऽपि खसंवेदनमपदिश्यते; अस्वसंवेदनं किं न व्यपदिश्यते , क्रियातिरेकामावस्याऽविशेषात् ? 10 ___तथा, अर्थस्यापि न तद्वेदनम् । अथ कथं तत् अर्थस्य वेदनं न भवति ? कथ्यते-तत् सत्तामात्रेण अर्थस्य वेदनम् , तजन्यतया वा ? तद्यदि सत्तामात्रेण अर्थस्थ वेदनम् । तदा विश्वस्य तवेदनं स्यात् तद्देहाविशेषात् । अथ तजन्यतया तत्संवेदनमुद्गीयते; तदा नयनालोकेश्वरादेरपि तत् संवेदन-15 मापद्यते, तर्जन्यमानत्वोपपत्तेः । न चार्थस्य व्यापारातिरेकोऽस्ति, क्रियातिरेकस्यानधिगतेः । व्यापारातिरेके हि नियतफलोऽर्थः स्थात् । भवतु: न, अदृष्टत्वात् , एकं हि इदं फलं कारककदम्बसम्पाद्यम् । ततश्चार्थसंवेदनवत् तत्सर्वकारकसंवेदनवत्त्वप्रसङ्गः। अथ कारकान्तरस्य न तत् वेदनम् ; अर्थ-20 स्थापि न तत् वेदनम् । तदभावान हेतुफलभावावगमः। तद्नवगतौ च न कार्य दृष्टा कारणं प्रत्येति । । अपि च, कार्य दृष्वा किमयम् अनुमाता कारणं स्मरति, आहो प्रत्येति ? तद्यदि स्मरति ; तन्नाननुभूतं स्म मीशः।
अथ प्रत्येति; तत्रापि किम् उपचरितं प्रत्येति, आहो25 निरुपचरितम् ? तद्यदि उपचरितं प्रत्येति; तदयुक्तम् , तेन सह . सम्बन्धानुपपत्तेः, अकारकत्वेन गमकत्वानुपपत्तिः ।