________________
७०
तत्त्ववसिंहे
जोति, आश्रितानाश्रितत्वस्याऽविशेषात् । न च सम्बन्धमन्तरेण षष्ठी सम्पद्यते, अपि तु सम्बन्धे सति देवदत्तनयनतुरगव्यपदेशो यथा । अथ सम्बन्धमन्तरेण कुम्भाभावव्यपदेशोऽभ्युपगम्यतेः तदास्तं गतं विश्वं स्यात्, सम्बन्धाभावस्याविशेषात् ।
[ $ ३. हेतुफलसंबंधावधारणस्यानुपपत्तिप्रकटनम् । ] इतोऽपि हेतुफलसम्बन्धावधारणं नोपपद्यते - किं निरुपचरितकारणग्रहणानन्तरं गृह्यते कार्यम्, आहोस्विद् उपचरितकारणग्रहणानन्तरम् ? यदि निरुपचरितकारणग्रहणानन्तरं 10 गृह्यते; तदयुक्तम्, सामग्रथा अतीन्द्रियत्वेन संवेदनायोगात् । अथ उपचरितकारणानन्तरीयकत्वेन तद् गृहयते तेन तस्य तत् फलम् ; तदयुक्तम्, उपचरितस्य कारणत्वमेव न विद्यते कथं तत् फलतां याति ।
अन्यच, तन्तूनां कार्य वस्तु (स्त्रं) किम् - पूर्वापरकाल15 भावित्वेन, आहो पूर्वापरग्रहणेन ? तयदि पूर्वापरकालभावत्वेन तदा नियतकारणकार्यत्वं न लभ्यते अम्बरफलस्य, तत्समानकालीनाऽनेककार्योत्पादकानां तत्पूर्वापरकालभावित्वा
विशेषात् ।
अथ अन्वयव्यतिरेकयुक्तस्य यस्य पूर्वकालभावित्वं तत्20 कारणं तदस्ति, ध्रुव भाविकार्यदर्शनात् । अन्वयव्यतिरेकशब्देन किमभिधीयते ? किम् - कारणम्, अन्यद्वा ? तद्यदि कारणम् ; तदा न किंचिद् बाध्यते कारणात्मतया तत्कारणम् । अथ अन्यत् तत् न जानीमः किं तद् इति ? नच पूर्वापरभाव: सिद्धोऽत्र ज्ञानमन्तरेण । ज्ञानं विना न जाने 25 किं सहोत्पन्न, पूर्वापरभावोत्पन्नी वा अनुत्पन्नौ वा ?
अथ पूर्वापरग्रहणक्रमेण पूर्वापरोत्पाद - तदभावव्यवस्था इति चेत् तदेतदपि ग्रहणेऽपि तुल्यम् । सती सत्ता संवेद्यते