________________
७. नैयायिकाभिमतस्यानुमानस्य निरसनम् । काले नोपलभ्यते; तदयुक्तम्, न नियामकं किंचिद् बीजमस्ति , न च वीजमन्तरेणाभ्युपगमो युक्तः। ___अथ ध्वंसे सति सर्वोपाख्यारहितत्वे कथं वस्तुत्वसंस्थितिः ? कदा सर्वोपाख्यारहितत्वम् ? किम् उपलब्ध्यवस्थायाम् , आहो अनुपलब्ध्यवस्थायाम् ? तद्यदि उपलब्धिमधि-5 कृत्योच्यते; उपलभ्यते च सर्वोपाख्यारहितत्वं च इति चित्रम् ।
अथ अनुपलब्ध्यवस्थामङ्गीकृत्योच्यते सर्वोपाख्यारहितत्वम् ; तद्युक्तम् , दुरावरणादिनिमित्तोपनिपाते सति अनुपलब्धौ सर्वोपाख्यारहितत्वं सत्त्वं च इत्यनेकान्तः । यदि च10 ध्वंसे सति अत्यन्तानुपलम्भः अनुपलम्भप्रपञ्चोऽयं न तत्स्वरूपस्यातावद(तादव)स्थ्यम् , आचरणादिकृतानुपलम्भे यथा ।
तज्जन्यता विरोधार्थः; तदा दण्डादिनापि जनितत्वात् तद्विरोधित्वप्रसङ्गः । न च व्यापारातिशयोऽस्ति, तं प्रति क्रियातिरेकस्य अनुपलब्धिः (ब्धेः। अथ तज्जनकत्वं विरो-15 धार्थः; तयुक्तम् , न घटधूमात्मा तद् ध्वंसोत्पाद्यः तैरेव अनभ्युपगमात् । यदि च तज्जनकत्वेन विरोधित्वम् । तदा अभावज्ञानस्य अभावो विरोधी स्यात् । ____ अथ भिन्नार्थक्रियाकतृत्वम् । तदा सर्वे सर्वस्य विरोधिनः प्राप्नुवन्ति । अथ भिन्नहेतूत्पाद्यत्वं विरोधार्थः; तदयुक्तम् ,20 एकेन देवदत्तेन कुम्भ-तद्विच्छेदयोरुत्पद्यमानत्वात् । यदि च नियतहेतुत्पाद्यत्वेन विरुहत्वं जेगीयते सदसतो; तदा सर्वे भावा नियतसामग्या उत्पाद्या अन्योन्यविरोधिनो भवेयुः। नित्यानित्याकारयोर्विरोधप्रसङ्गः, नित्याकारस्थ निर्वाजत्वात्, बीजवत्वे वा नित्यतैव न स्यात् ।
. 25 अथ आश्रितानाश्रितत्वं विरोधार्थः; तदा आत्मज्ञानयोः विरोधित्वमापनीपद्यते, कुम्भापगमस्थ सर्वविरोधित्वं प्रा