________________
तवोपप्लवसिंहे
कालीनता, तत्सद्भावे तस्यानुपलम्भो वा, तज्जन्यता वा, तज्जनकत्वं वा, भिन्नक्रियाकर्तृत्वं वा, भिन्नहेतुत्पाद्यत्वं वा, आश्रितानाश्रितत्वं वा ?
६८
तद्यदि तावद् अतदाकारता विरोधः ; तदा त्रैलोक्यस्य 5सा खण्डना, न केवलं धूमस्य, त्रैलोक्याकारपरिहारेण तत्स्थितेः । अथ असमानकालीनता विरोधार्थः ; तदा अतीतानागतवर्त्तमानकालानामन्योन्यविरोधित्वप्रसङ्गः । न चासना( चासमान ) कालीनता स स्वभावेन उभयोः स्वभावोपपत्तेः ।
"
10 अथ तत्सद्भावे तस्यानुपलब्धिः विरोधार्थः तदा अतिदूरादिनिमित्तोपनिपाते सति तदनुपलब्धिर्दृष्टा नच तेषां तत्खण्डनात्मता | तथा, दीपाभावे घटधूमादेरनुपलब्धिर्दृष्टा, न च सा घटधूमादेः सत्ता खण्डिता ।
अथ दूरादिनिमित्तोपनिपाते यत्रानुपलब्धिर्दृष्टा तत्रोप15लब्धिरपि पुनर्दृष्टा, इह तु पुनः ध्वंसे संजाते न जातु धूमकुम्मादेरुपलब्धिरस्ति । केन नोपलभ्यते ? किं केनापि, आहो सर्वज्ञातृभिः । तद्यदि केनापि नोपलभ्यते, तेन तदा तस्य स्वरूपखण्डना; तदयुक्तम्, दूरा[व] रणादिनिमित्तोपनिपते सति यथैके तमर्थ न पश्यन्ति अपरे पश्यन्ति, एवं सति 20 संजाते ध्वंसे समर्थम् एके नोपलभन्ते अन्ये तु उपलप्स्यन्त इति ।
अथ सर्वज्ञातृभिनपलभ्यते ; कानुमा ? ' एतदनुभवविकलाः सर्वे ज्ञातार: ; न मानमस्ति परचित्तवृत्तीनां दुरन्वयत्वात् बुद्धिवैचित्र्यस्य च उपपत्तेः ।
3
"
25
ध्वंसे सति अनुपलब्धिः किं - नियतदेशकाले, सर्वदा वा ? तद्यदि नियत देशकाले अनुपलब्धिः ; तदा न सत्तापगHisar, सिद्धसाध्यतया च बोडव्या: । अथ सर्वदेश