________________
७. नैयायिकाभिमतस्यानुमानस्य निरसनम् । ६७ क्षेणैव अवगम्यते ; किं तत् प्रत्यक्षं विधिमुखेन उपजायते, आहो प्रतिषेधमुखेन ? तद्यदि विधिमुखेन उपादीयते; तत्किं धूमविषयम्, आहो अन्यविषयम्, निर्विषयं वा ? तद्यदि धूमविषयम् । तदा तत्स्वरूपावगाहिना तत्स्वरूपास्तित्वं विधीयते न तत्स्वरूपखण्डना । अथ अन्यविषयम् ; न तर्हि तेन 5 तस्य खण्डना विधीयते तत्स्वरूपवत्, अपि तु यद् यद्विषयं तत् तस्यैवाऽस्तित्वं विदधाति । अथ निर्विषयम् : न तर्हि तत् किंचिद् विदधाति नापि प्रतिषेधति मूकान्धवधिरतुल्यत्वात् । ____अथ प्रतिषेधमुखेन उपादीयते; तदपि किं धूमविषयम् , आहो अन्यविषयम्, निर्विषयं वा ? तद्यदि धूमविषयम् ;10 तदा तत्सत्तोपनिबद्धं तत्स्वरूपास्तित्व विधायकं न तु व्यावतकम् । अथ अन्यविषयम्; अन्यविषयपर्यवसायिना न तत्सत्ताखण्डना अवद्योत्यते तत्सत्तावत् । अथ निर्विषयम् ; न सत् किंचिद्विद्धाति नापि प्रतिषेधति मूढात्मतयोत्पत्तेः।
अथ सत्ताविच्छेदो हि प्रध्वंसः, सोऽनेन आत्मसात् क्रि-15 यते; नेदं चतुरस्रं वचः । प्रध्वंसो हि विषयान्तरम् , तत्रो. त्पन्नं विज्ञानं तत्स्वरूपास्तित्वविधायकं न तु कस्यचित् प्रतिषधकम् । तस्मिश्च संवेद्यमाने न कस्यचित् खण्डनाऽवगम्यते खविषयपर्यवसायीनि विज्ञानानि स्वविषयास्तित्वविधानपराणि । का कस्य खण्डना ?
20 अथ प्रध्वंसज्ञाने धूमस्वरूपं न प्रतिभाति , तेनासौ तस्य खण्डना इति चेत् ; यद्येवं त्रैलोक्यस्य खण्डना, तस्मिन् धूमध्वंसज्ञाने त्रैलोक्यं नावभाति , त्रैलोक्यात्मको वा न भवति ध्वंसः।
[$ २. प्रप्तङ्गात् विरोधयवार्थस्य विकल्प्य दूषणम् । ] 25 अथ धूमविरोधित्वेन असौ धूमस्य खण्डना इति चेत् ; कः पुनरसौ विरोधार्थ:? किम् - अतदाकारता, आहो असमान