________________
तत्त्वोपप्लवसिंहे जातातिशयेन उत्पाद्यते तापादि कार्यम् । तदा सर्वदा कुर्यात्, अनुपजातबलस्य कार्यकारणाभ्युपगमात्, न तापादि विकल: स्यात् , समं सुखादि कार्य प्रसज्यते। अथ अव्यतिरिक्तोपजातातिशयेन उत्पाद्यते तापादि कार्य; तदा अव्यति5रिक्तोपजातातिशय इति किं भणितं भवति ? आत्मा उपजायते । ततश्च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः ।
अथ व्यतिरिक्तोपजातातिशयेन जन्यते तापादि कार्यम् : स तेनात्मना सह सम्बद्धो वा, न वा ? यदि न सम्बद्धः; स तस्यातिशयः कथम् ? 10 अथ सम्बडः किम् - जनकत्वेन, अथ जन्यत्वेन, तत्समवायित्वेन वा? तद्यदि जनकत्वेन सम्बद्धः; तदा आत्मा तेनातिशयेन उत्पद्यते इति स्मरणानुपपत्तिः। अथ जन्यत्वेन; सोऽपि तेन कथमुत्पाद्यते ? किम् - अनुपजाताति
शयेन, व्यतिरिक्तोपजातातिशयेन वा - इति प्राप्ता प्रश्न15 परम्परा । अथ तत्समवायित्वेन; न, तस्य सर्वसाधारणस्वात्, तदभावाच । .. अथ एककार्यजनकत्वेन सम्बद्धः; तदेवेदं चिन्तयितुमारब्धम् - किमिदं जनकत्वं नामेति ? किंच, यदेव अनुपजातेऽतिशये आत्मनो रूपं तदेव जातेऽपि, तत् कथं कार्य कुर्यात् ? 20अथ पूर्वरूपस्थातावस्थ्यम्; सुस्थितं नित्यत्वम् ! अथ ताद्वस्थ्यम् । तथापि न करोति कार्यम् । एवं नैयायिकादिमतेन आत्मन उपभोगस्मरणादिकं न जाघटीति ।
[$ २. जैनमते उपभोगायनुपपत्तिप्रकटनेन आत्मानुमाननिराससूचना।] ... यस्यापि देहपरिमाणमात्र आत्मा, तस्यापि सुखदुःखो25पभोगानुभवस्मरणानुपपत्तिः । कथम् ? उपपाद्यते - सुखादिकार्यम् आत्मनो भिन्नम्, अभिन्नम्, भिन्नाभिन्नं वा? तद्यदि