________________
८. आत्मानुमानस्य निरासः ।
भिन्नम् : तत्किम् - सत्तामात्रेण, तजन्यत्वेन , तज्जनकत्वेन, तत्समवायित्वेन वा - इति पूर्वोक्तं दृषणमनुसृत्य वक्तव्यम् ।
अथ अभिन्नं सुखदुःखोपभोगस्मरणादिकार्यमुत्पद्यते ; एवं तर्हि आत्मा उत्पद्यते । तदुत्पत्तौ स्मरणानुमानानुपपत्तिः, सुखादिवद् आत्मनो नानात्वोपपत्तेः । अथ एक एव आत्मा; 5 सुखादेरप्येकता प्राप्ता । ततश्च एकत्वे अनुभवस्यैवावस्थानाद् अनुमानस्मरणानुपपत्तिः । अथ नानात्वं सुखादीनाम् ; आत्मनोऽपि तदेवापद्यते, तव्यतिरेकात् । अथ सुखादिभेदेऽपि आत्मा नैव भिद्यते ; तदा सुखादितादात्म्यं न लभ्यते । अथ सुखादितादात्म्यम् । तदा एकता नोपपद्यते, सुखादिवत्10 नानात्मोपपत्तेः। ____ अथ भिन्नाभिन्नं सुखादि कार्य तेन नोदितं दूषणमिति चेत् । कथम् ? किम् आकारान्यत्वेन , आहोस्वित् कार्यान्यत्वेन , कारणान्यत्वेन वा ? तद्यदि आकारान्यत्वेन आत्मनो. भिद्यते सुखादिकार्यम् ; तयुक्तम् , आकारान्यत्वं हि अन्यो-15 न्याकारपरिहारेण खात्मना व्यवस्थितम्, अभेदपर्युदासेन भिन्नबुद्धिविषयत्वेनावस्थितेरेकत्वानुपपत्तिः। एकत्वं हि एकस्वभावता, एकस्वाभाव्ये हि नानास्वभावता नोपपद्यते , नानास्वाभाव्ये हि एकस्वभावतो(ता) नोपपद्यते - अन्योन्याकारपरिहारेण एतावाकारी व्यवस्थितौ ।
20 __अथ कारणान्यत्वेन भेदपरिकल्पना; तदयुक्तम् , भिन्नादपि कारणादभिन्न कार्य दृष्टम् । मृत्पिण्डदण्डाद्यनेक कारणम् अखण्डितं कार्य जनयति । तथा एकेनापि कारणेन अनेक कार्य जन्यमानं दृष्टं घटादि । तेन न कारणभेदेन वस्तूनां भेदः, नापि कार्यभेदेन , अपि तु आकारभेदेनैव भेदः । स च आकारभेद:25 अस्ति सुखात्मनोः, कथमभेदः ?