________________
सत्योपपलसिंह
किंच, येनैव आकारेण सुखम् आत्मनो भिद्यते सेनैव आकारेण अभिन्नम् , आहोस्विद् आकारान्तरेण ? तद्यदि तेनैवाकारेण अभिन्नम् : तस्य तावदेकान्ताऽभेदः प्रतिपन्नो भवति भवता । अथ आकारान्तरेण अभिन्नम् ; आकारान्तरं इसुखं न भवति, तदभेदेऽपि सुखस्य भेदात् ।।
[३. प्रसङ्गात् जैनाभिमतस्यानेकान्तवादस्य निरसनम् । ]
एवं च स्थिते - " तदेव नित्यं तदेव चानित्यम् " इत्येतन्नोपपद्यते, सुखात्मनोर्मेदात् । अनाद्यन्ता सत्ता नित्या, आघन्तवती चाऽनित्या ।
10 तथा-" पररूपतयाऽसत्त्वं खरूपेण सत्त्वम् ” इत्येतदपि न संभवति । पररूपेण न भावः नाप्यभावः, अपि तु स्वेन रूपेण भाव एकात्मकः-एकं हीदं वस्तुपलभ्यते, तचेदभावः किमिदानी भावो भविष्यति ? तद्यदि पररूपतयाऽभावः तदा घटस्य घ(पोटरूपता प्राप्नोति, यथा पररूपतया भावत्वेऽङ्गी15क्रियमाणे पररूपानुप्रवेशः, तथा अभावत्वेप्यङ्गीक्रियमाणे पररूपानुप्रवेश एव । सतश्च सर्व सर्वात्मकं स्यात् ।
अथ पररूपस्याभावःतदविरोधि त्वैकत्वं तस्याऽभावः । नहि तस्मिन् सति भवान् तस्यानुपलब्धेष्टा, अन्यथा हि
आत्मनोप्यभावो भवेत् । अथ आत्मसत्ताऽविरोधित्वेन 20स्वात्मनोऽभावो न भवत्येवः परसत्ताविरोधिवात् परस्याप्यभावो न भवति । अथापराकारतया नोपलभ्यते तेन परस्य भावो न भवति; अभावाकारतया च अनुपलब्धेः परस्याभावोऽपि न भवेत् ।
१. तत्या-भावः इत्यनयोर्मध्ये लुप्तो नकारो दृश्यते । अत्र कदाचित् ग्रन्थकारेण पूर्व — तस्य न भावः' इति लिखितं स्यात् । अय च पश्चात् तं नकारं लुप्त्वा केनचित् 'तस्याऽभाव ' इति कृतं स्यात।