________________
८. आत्मानुमानस्य निरासः ।
अथ अभावाकारतया उपलभ्यते; तदा भावोन्यो नास्ति, अभावाकारान्तरितत्वात् - अभावस्वभावावगाहिनाऽवबोधेन अभाव एव द्योतितो न भावः । यथा सुखावगाहकेन विज्ञानेन सुखमेवाऽवद्योतितं न दुःखम् । अथ सुखज्ञानेन दुःखमपि गृह्यते; तदिदानी सुखदुःखयोरेकता प्राप्नोति । ततश्च पर्याय-5 रूपतया भेदाभ्युपगमो हीयते - अभिन्नात्मकं जगत् स्यात् । एवं च स्थिते यदुक्तम्____भागे सिंहो नरो भागे योऽर्थो भागव्यात्मकः ।
तमभागं विभागेन नरसिंहं प्रचक्षते ॥" इति, तन्न प्राप्नोति विश्वस्याऽखण्डरूपत्वात्। एतदपि न10 वक्तव्यम्"एको भावः सर्वभाववभावः, सर्वे भावा एकभावखभावाः। एको भावस्तत्त्वतो येन दृष्टः सर्वेभावास्तत्त्वतस्तेन दृष्टाः॥"
अथ पर्याया इतरेतरात्मना भिद्यन्ते सर्वभावानाम् ; एवं तर्हि भावाऽभावपर्याययोरपि भेदोऽस्तु । इमामेव मूर्खतां15 दिगम्बराणामङ्गीकृत्य उक्तं सूत्रकारेण-यथा
“ नग्न ! अव(म)णक ! दुर्बुद्धे ! कायकेशपरायण !।
जीविकार्थेऽपि चारम्भे केन त्वमसि शिक्षितः॥"॥छ॥ [$४. सांख्यमतेऽपि भोगानुपपत्तिप्रदर्शनेनात्मानुमाननिरासः।]
तथा सांख्यमतेनापि आत्मनो भोगो नैव सम्पद्यते20 भोगस्य आत्मनि अवृत्तेः । भोगशब्देन सुखमभिधीयते, तत्संवेदनं वा? तदुभये बुडो वर्तते नात्मनि, एवं च व्यवस्थिते बुद्धर्भोक्तृत्वं नात्मनः । ___अथ बुद्धिगतेनापि भोगेनैव आत्मनो भोक्तृत्वमभिधीयते; तदा बुद्धिगतेन कर्तृत्वेन. आत्मनः कर्तृत्वं प्रसज्यते । ततश्च25