________________
तत्त्वोपप्लवसिंहे .. "कर्ता न भवति" इत्येतन्न वक्तव्यम् । अथ आत्मनि कर्तृत्वस्याऽवृत्तेः अकर्ता इत्यपदिश्यते ; भोगस्याप्यतद्वत्तेः संभुग न भवत्यात्मा।
अथ अस्ति कर्तृत्वं यदि नाम औपचारिकम् , यथा भृत्ये 5जयपराजयौ वर्तमानौ स्वामिनि उपचर्येते तथा बुद्धौ वर्तमान कर्तृत्वं पुंसि उपचर्यते; यद्येवम् भोगोऽपि बुद्धौ वर्तमानः पुरुषस्यौपचारिकः प्राप्तः। औपचारिकोपि आत्मनि न संभवति, अन्यत्र मुख्यतयाऽनभ्युपगमात् । भोगाऽभावे च आत्मनो मोक्षचिन्ता न कर्त्तव्या। बन्धनवान् मुच्यते । न चात्मनि 10बन्धनमस्ति। भोगो हि बन्धनम् । स चात्मनि नैव विद्यते, सदभावात् मोक्षोऽपि निरुपपत्तिकः ।
तथा, आत्मनोऽस्तित्वं न सिद्धयति भोक्तृत्वस्याभावे । भोग्येन भोक्तुरनुमानम् । यथा सूपादिमानं भोकविनाभूतं दृष्टम् , तथा प्रधानं सविकारं भोग्यं तेन भोक्ताऽनुमीयते; 15एतचायुक्तम् ; आत्मनो भोक्तृत्वाभावे कथं भोग्येन आत्माऽनुमीयते , आत्मना सह भोग्यस्य सम्बन्धानवगतेः? तदनवगतिश्च आत्मनः प्रत्यक्षाविषयत्वात् । तदविषयत्वं च 'विशेषेऽनुगमाभावः' इत्युक्तम् । अथ प्रत्यक्षेण आत्मा अवधार्यते; तदा प्रत्यक्षविषयत्वेन आत्मनः समानता प्रत्यक्षानुमानविषयत्वेन, 20ततश्च सिद्धसाध्यता।
सूपादि भोकविनाभूतं दृष्टम् ; तत्किम् - देहादिव्यतिरिक्तभोकविनाभूतं दृष्टम् , आहोस्विद् देहमात्रभोकविनाभूतं दृष्टम् ? तद्यदि देहादिव्यतिरिक्तभोकविनाभूतं दृष्टम् ; तदा दृष्टान्तोऽपि दार्शन्तिकप्रतितुल्यः, आत्मनोऽतीन्द्रियत्वेन । 25अथ प्रत्यक्षेणावधारित आत्मा; तदा सिद्ध आत्मा, किमनुमानेन ?