________________
८. आत्मानुमानस्य निरासः । ८१ अथ देहमात्र भोकविनाभूतं दृष्टम् । तदा देहविकाराणां भोगयोगेन नात्मनः सिद्धिः। भवतु वा आत्मनो भोगः, तथापि अकृत-कृताभ्यागमनाशदोधप्रसङ्गः - अकृतस्य कर्मणः फलमभ्येति आत्मनः, कृतस्य च कर्मणः फलं न सम्पद्यते बुद्धिः । यदि च अकृतस्य कर्मणः फलमभ्येति । तदा मुक्तात्मनामपि 5 तत्फलं स्यात् , आत्मवृत्तिनियमहतोरभावात्। ततश्चाऽकैवल्यप्रसङ्गः।
[५. सांख्यसंमतस्य कैवल्यस्यानुपपसिकत्वोपपादनम् । ] इतश्च कैवल्यं नोपपद्यते , भोग्यभोजकयोरवस्थानात् । नहि भवतां पक्षे सदात्मानं परित्यजति भोग्यम् । येनाकारेण10 आत्मनो भोग्यत्वेवावस्थितम् , नहि तदाकारभतिवर्त्तते , आस्मनो भोक्तवाकारस्य अनतिवृत्तेः । अतिवृत्तौ च आत्मोच्छेदप्रसङ्गः ॥ छ ।
[$ ६. वेदान्तसंमतस्यानन्दरूपकैवल्यस्यायुक्तिकताप्रदर्शनम् । ]
येपि आनन्दरूपमात्मनः कैवल्यमभिदधति तेऽपि युक्ति-15 वादिनो न भवन्ति । कथम् ? यद्यात्मनः आनन्दरूपं स्वसंवेद्यं च; तदा संसारावस्थायामपि तत् वेद्यं प्रसक्तम् । ततश्च मोक्षार्थप्रयासो निष्फलः। __ अथ संसारावस्थायां न वेद्यते अनादिमलावगुण्ठितमात्मनः खरूपम् , यथा पटान्तरिते घटे घटबुद्धिर्न भवति, एवं मललिप्से20 आत्मनि आत्मधुडिर्न भवति; तदेतदयुक्तम् , दृष्टान्तदाष्र्टान्तिकयोः वैषम्यात्-पटान्तरिते घटे घटवुद्धिर्न भवति पटान्तर्धाने सति इन्द्रियेण साकं सम्बन्धो नास्ति तद्भावाद् घटे नेन्द्रियजं विज्ञानं सम्पद्यते । इह तु पुनः मलावगुण्ठनेन कस्य व्यवधानं क्रियते ? न वेद्यवेदकयोर्व्यवधानं क्रियते । वेद्यं वेदकं च आत्म-23 खरूपमेव-यथा बौद्धानां स्वसंवेद्यं विज्ञानम् , तच विषयसद्भा
११त.