________________
१२
तस्वोपप्लवसिंह
वेऽपि वेद्यते तदभावेऽपि वेद्यते, य(त)थात्मनः स्वसंवेद्यं स्वरूपं मलसद्भावेऽपि वेद्यते तदसद्भावेऽपि वेद्यते , मलस्थाऽकिंचित्करत्वाद् आत्मनोऽर्थान्तरत्वेनाऽवस्थानात् । अथ तादात्म्येन स्थितानि मलानि; तदा 'मलानि अपनीयन्ते' किमुक्तं 5भवति ? आत्माऽपनीयते । ततश्च मोक्षाभावप्रसङ्गः ।। छ ।
[६ ७. मीमांसकमतेनापि आत्मानुमानस्यासंभवित्वप्रकटनम् । ]
तथा मीमांसकमतेनापि आत्मानुमानं न प्रवर्तते, प्रमाणान्तरानवधारितार्थविषयत्वाभ्युपगमात् प्रमाणानाम् । नियतविषयाणि हि प्रमाणानि प्रतिपद्यन्ते - प्रत्यक्षावसेये नानु10मानं प्रवर्तते, अनुमानावसेये च प्रत्यक्षं न प्रवर्तते । ततश्च इतरेतरव्यावृत्तिविशेषविषयाणि । तयु(तदुक्तम् - " विशेषेऽनुगमाभाव: " विशेषो नियतप्रमाणग्राहयोऽर्थः, तथाभूतेऽर्थेऽङ्गीक्रियमाणे अनुमानस्याऽनुगमाभावः। अनुगमः सम्बन्धः, तहणानुपपत्तिः। 15 अर्थे(थ) प्रत्यक्षाद्यवधारितेप्यर्थे अनुमान प्रवर्तते ; नन्वेवं प्रत्यक्षानुमानसाधारणोऽर्थः प्रसक्तः । साधारणता समानता। "सामान्ये सिद्धसाध्यता" प्रत्यक्षावगतत्वात् । अनधिगतार्थगन्तृविशेषणं च अपार्थकम् ।
अथवा , सामान्ये सिद्धे साधनम् इत्यन्योऽर्थः । सामा20न्ययोः गम्यगमकभावोऽभ्युपगम्यते मीमांसकेन । नच तत् सामान्यं विद्यते, यथा च न विद्यते तथा प्रागेवोदितम् । ततश्च सिद्धस्य साधनम् - विद्यमानस्य साधनम् । नच अग्निस्वमस्ति । तदभावे कस्येदं ज्ञापकम् ?
अथवा, सिद्धं साधनं सिद्धसाधनम् इत्यन्योऽर्थः । विद्य25मानं साधनम् । नच धूमत्वसामान्यमस्ति । तच(त्त्व)विद्यमानं . सामान्यम् । कथं सामान्य साधनं भवितुमर्हति ?