________________
९. ताथागतसंमतस्यानुमानस्य निरासः । ८३ अथवा, सिद्धसाधनम् - ज्ञातमनुमानं साधनं भवति, न च धूमत्वं ज्ञातं खयमसत्त्वात् , अथवा ग्रहणोपायाभावात् तस्य अनुस्यूतं रूपम् । नच तत् आत्मन्यनुस्यूतम् । नापि एकस्यां व्यक्तौ अपि तु बहीषु व्यक्तिषु । नच बहृयो व्यक्तय उपलभ्यन्ते, अपि तु एकैव धूमव्यक्तिरुपलभ्यते । नच ए- 5 कस्यां व्यक्ती अनुगतात्मतया सामान्यसंवित्तिरस्ति । नचाकारान्तरसामान्यम् ॥ छ ।
[९. ताथागतसंमतस्यानुमानस्य निरास:] तथा, ताथागतानामपि अनुमानं न प्रवर्तते सम्बन्धानवगतेः। तदनवगतिश्च - किं सामान्ययोः सम्बन्धावधारणम् ,10 आहोस्वित् सामान्यस्खलक्षणयोः, स्वलक्षणयोर्वा? तद्यदि सामान्ययोः सम्बन्धावधारणं क्रियते ; तदयुक्तम्, सामान्यस्याऽसंभवान्न तयोः सम्बन्धः। नापि सामान्यस्खलक्षणयोः सम्बन्धावधारणं क्रियते, सामान्यस्याऽसत्त्वात् ।
अथ स्खलक्षणयोः सम्बन्धावधारणम् ; तत्रापि किम् अ-15 र्थयोः, ज्ञानयोः, ज्ञानार्थयोर्वा ? तद्यदि अर्थयोः सम्बन्धावधारणम् ; तद्दहनधूमयोहे तुफलभावज्ञानं किं सत्तामात्रेण, आहोस्वित् तदाकारयोगित्वेन, तज्जन्यत्वेन वा, सामस्त्येन वा ? तद्यदि सत्तामात्रेण दहनधूमसंवेदनमपदिश्यते; न केवलं तद्दहनस्य तत् संवेदनम्, त्रैलोक्यस्य तत्संवेदनं प्रसक्तम्, उप-20 कारविनिर्मुक्तस्य सत्ताऽविशेषात् ।
[६१. प्रसङ्गात् ज्ञानस्य विषयाकारत्वं विचार्य तत्खण्डनम् । ]
अथ तद्दहनाकारयोगित्वेन तस्य संवेदनमभिधीयते; यथा दहनेन खनिर्भासमुत्पादितं तथा गन्धाकारोपरक्तगन्धादिज्ञानेनापि स्वनिर्भासमुत्पादितम् । ततश्च ज्ञानाकारं तदुत्पद्यते25 इति युक्तं भवति गन्धाद्याकारम्, ततश्च अनेकाकारयोगित्वे सति प्रतिकर्मव्यवस्था न लभ्यते । अथ गन्धादिज्ञानं न गन्धा