________________
८४
तत्त्वोपप्लवसिंहे द्याकारमर्पयति दहनज्ञाने; तदानी ज्ञानाकारार्पकत्वमपि न लभ्यते, ज्ञानतादात्म्यव्यवस्थितोऽसौ गन्धाकारः तदनर्पकत्वे ज्ञानाकारोऽपि नार्पितः स्यात् । ततश्च दहन विज्ञानम् अविज्ञानम् । निरवयवं च गन्धादिज्ञानम् , नैकदेशेन आकारापकत्वम् । 5अथ निराकारं गन्धादिज्ञानम् ; प्रतिकर्मव्यवस्था तर्हि न लभ्यते , तस्य दहनज्ञानस्यापि निराकारताऽस्तु ।
किंच, दहनाकारयोगित्वेन यदि दहनसंवेदनम् ; तदा पूर्वविज्ञानाकारयोगित्वेन पूर्वविज्ञानस्यापि तवेदनं प्राप्तम्, तदाकारयोगित्वात् तदुत्पाद्यत्वाच । अथ तथा(दा)कारयो. 10गित्वे तदुत्पाद्यत्वे च तस्य तवेदनं न भवति; विषयस्यापि तर्हि तवेदनं किम् , इह व्यस्य विसंवादात् ? अथ तद्विज्ञानं विदितम् इति कृत्वा न वेद्यते ज्ञानान्तरेण ; एवं विषयस्यापि तबेदनं न प्रामोति पुरुषान्तरावधार्यमाणस्य ।।
अपि च, यदि दहनाकारयोगित्वेन दहनस्य तवेदनम् : 15वस्तुत्वाकारयोगित्वेन नयनादेरपि तत्संवेदनं प्रसक्तम् । अथ नयनादेरसाधारणाकारार्पकत्वं न विद्यते; तेन तेषां तत्संवेदनं न भवति , नीलस्य स्वभवनदेशकालस्वभावानर्पकत्वात् खकारणकलापोत्पाद्यस्वभावानर्पकत्वाच्च। तदर्पकत्वं च नीलाकारयोगिता स्यात् तत्कारणजन्यत्वं च । एककालीनत्वे एकका20रणजन्यत्वे च हेतुफल भावानुपपत्तिः सहोत्पन्नयोर्गोविषाण
योरिव । अथ असाधारणाकारतया नोपजायते अपि तु नील"मात्र प्रतिच्छायतयैव उपजायते; यद्येवं नयनादिखलक्षणाकारतया उपजायमानं नयनादेः तदहणं भवेत् ।
अपि च, दहनाकारता दहनविज्ञानात् किं भिन्ना , अभिन्ना 25वा ? यदि भिन्ना : सा किं तात्त्विकी , आहोस्विदतात्त्विकी ? तथदि तात्त्विकी; तद्गतिः कथम् ? न स्वसंवेद्यत्वेन नापि