________________
९. ताथागतसंमतस्यानुमानस्य निरासः ।
८५
जनकत्वा-ऽऽकारार्पकत्वेन । स्वसंवेद्या न भवति विज्ञानकार्य(काय)व्यतिरेकात् । नापि जनकत्वाऽऽकारार्पकत्वेन गृहयते । अर्थो हि आकारमर्पयति न विषयाकारता। तदाकारार्पकत्वे वा प्राप्ता आकारपरम्परा। अथ अतात्विकी विषयाकारता; सा अतात्त्विकत्वेन असंविदितदेहा कथं मतिकर्मनियामिका 5 भवति ? __ अथ अव्यतिरिक्ता; सा किं तात्त्विकी, आहोस्विद् अतात्त्विकी ? यदि तात्त्विकी ; सा किं जडात्मिका, आहोस्वित् चित्स्वभावा ? तद्यदि जडात्मिका; तदा ज्ञानाऽव्यतिरेकित्वं न संभवति चिदचिदोरेकत्वायोगादन्योन्यपरिहार-10 स्थितिधर्मत्वेन । अथ चिदात्मिका; तदा परिभाषामात्रं भिद्यते - ज्ञानं विषयाकार इति । अथ अतात्त्विकी; तदा ज्ञानस्याप्यतात्विकत्वम् । न च ज्ञानव्यतिरिक्ता विषयाकारता नास्ति, अपि तु ज्ञानस्वरूपमेव विषयाकारतात्कमपदिश्यते । तच नयनार्थालोकसाधारण उत्पाद्यत्वेन समं संवेदनं प्रसक्तं15 सर्वकारकाणाम् । [ $२. दृष्टान्तीभूतस्यादर्शस्य मुखरूपतास्वीकारार्थस्य विकल्प्य निरसनम् । ]
यदप्युक्तं केनापि - " आदर्शमण्डलं मुखरूपतां स्वीकरोति न च आदर्शरूपतां परित्यजति तथा ज्ञानमपि विषयरूपतां स्वीकुर्वन्न विज्ञानरूपतां त्यजति" तदप्ययुक्तम् ,20 आदर्शमण्डलस्य मुखरूपतास्वीकरणार्थो वक्तव्यः - किं मुखतादात्म्यम् , आहोस्विद् अविरलदेशोत्पादः ? तद्यदि तादात्म्यम् ; कथं न आदर्शरूपतां जहाति ? एकं हि इदं वस्तु-तत्तादात्म्ये मुखम् आदर्शो वा। अथ अविरलदेशोत्पादो मुखस्य स्वीकरणम् तदानीम् आकारस्यापि स्वीकरणम् अविरलदेशो-25 १. काया --- इत्येवं परिमार्जितम् ।