________________
८६
तत्त्वोपप्लवसिंह
त्पाद एव प्राप्तः, ततश्च नाकारेण प्रतिकर्मव्यवस्था क्रियते । अनवगतरूपेणैव च स्थितेः। दहनज्ञानं यदि साकारं तथापि दहनग्रहणं न भवति ।
इतोऽपि दहनग्रहणं न भवति । किं तद् अवगतम् , अनविगतम् , तत्किं ज्ञानान्तरवेद्यम्, खसंविदितं वा ? यदि ज्ञानान्तरवेद्यम् : तदयुक्तम् , न ज्ञानं ज्ञानान्तर वेद्यं भवत्पने। अथ खसंवेद्यम् । तद्युक्तम् , विषयदृष्टान्तबलेन निराकृतं नैयायिकैः। अथ अनवगतम्, न तर्हि तद् दहनस्य ग्रहणम् । " अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति" इति न्यायात् । 10 अपि च यत् तत् दहनग्रहणम् - तत्र किमवभाति - किम् अर्थः, ज्ञानम् , उभयं वा ? यदि अर्थः प्रतिभाति । तद्युक्तम् , असंविदितायां संवित्तौ तत्संवित्त्ययोगात् । अथ ज्ञानम् : [न] तर्हि दहनधूमयोः सम्बन्धोऽवगतः तत्संवित्तिपूर्वकत्वात् सम्बन्धबुद्धेः । अथ उभयं प्रतिभाति; तयुक्तम् , 15एकोपलम्भस्या(स्य) द्वितीयाकारपरिहारस्थितिधर्मत्वात् । न च दहनज्ञाने ज्ञानार्थाकारौ प्रतीयेते अपि तु दहनस्यैव प्रतिभासनात् ।
अथ दहनोत्पाद्यत्वेन तत् दहनस्य संवेदनम् ; कथं तत् दद्दनेनोत्पाद्यते ? किम् अतजननस्वभावेन, तज्जननस्वभा20वेन वा ? यदि अतजननस्वभावेन; अतजननस्वभावः कथमसौ तजनयेत् ? __ अथ तजननस्वभावः; न तर्हि दहनादु धूमस्योत्पत्तिः, दहनस्य दहनज्ञानोत्पादकस्वाभाव्येन धूमोत्पादकत्वायोगात् । अथ तेनैव स्वभावेन धूममुत्पादयति ; प्राप्ता विज्ञानस्यापि 25धूमरूपता, धूमस्य वा विज्ञानरूपता, अभिन्नात्मोत्पाद्यते , भेदकं च न बीजमस्ति ।