________________
९. ताथागतसंमतस्यानुमानस्य निरासः ।
८७
अथ स्वभावान्तरेण जनयति; [न] एकस्य स्वभावद्वयाभावात् - स्वभावद्वये च एकतानुपपन्ना । ततश्च दहनेन धूमोत्पादनं क्रियते न तदा स्वज्ञानमुत्पादयति । ज्ञानं विना केन हेतुफलावधारणं क्रियते? अथ दहनो दहनज्ञानमुत्पाद्यति; न तर्हि दहनस्य धूमोत्पादकत्वम् , तदभावात् न बाहयार्थयो- 5 हेतुफलभावावधारणं दहनादिज्ञानेन शक्यते कर्तुम् । [$३. कार्यानुमाननिरासाय दहनधूमयोर्हेतुफलभावानुपपत्तेपुनरुपक्रमः । ]
इतोऽपि दहनधूमयोः हेतुफलभावानुपपत्तिः। यथा अविचलितदहनस्वरूपस्य पूर्वापरानेककार्याविर्भावकत्वं न प्रतिपद्यते भवद्भिः तथा अनायत्तविकारस्य युगपदुत्पन्नानेककार्या-10 विर्भावकत्वमपि न प्रत्येतव्यम् । अथ अभ्युपगम्यते युगपदनेककार्योत्पादकत्वं युगपदनेककार्योत्पादनशक्तियुक्तस्योत्पत्तेः; यद्येवम् - क्रमभाव्यनेककार्याविर्भावकत्वस्योत्पत्तेः अयुगपदेकं कार्य विध्यात् । विद्धात्येव इति चेत्; इदमापेक्षिकत्वं यत् क्रमभाव्यनेककार्यजनकात्मकं स्वरूपम् । एत-15 दभ्युपगमे अभ्युपेतहानमापद्यते। अथ अविचलितरूपेण पूर्वापरकार्य न जन्यते; तदा युगपदपि न कुर्यात् अनायत्तविकारः। ततश्च न दहनाद धूमस्योत्पत्तिः।। ___ अथ एकमेव तेन ज्वलनेन जन्यते; किं तदेकम् - विज्ञानम्, धूमो वा ? तद्यदि विज्ञानमेव जन्यते; न तर्हि धूमं20 दृष्टा अग्नि(ग्निः) प्रतीय[तेऽ]तव्यापारलब्धजन्मवत्त्वात्। अथ धूम एव उत्पाद्यते ; तदा तद्विज्ञानं विना केन हेतुफलभावोऽवगम्यते ?
इतोऽपि दहनस्य धूमाविर्भावकत्वं न जाघटीति - किं निमित्तभूतेन धूमोत्पादनं क्रियते, किं वा उपादानभूतेन ?25 तद्यदि निमित्तभूतेनोत्पाद्यते; तदा धूमरूपता न प्राप्नोति उपादानं विना।