________________
८८
तश्वोपप्लवसिंहे
___अथ उपादानभूतेनोत्पादनं क्रियते; ननु असमानजातीयं कथमुपादानकारणं भवेत् ? अभ्युपगमे वा देहेन्द्रियसंघातादेव गर्भादौ विज्ञानं भविष्यति अलं परलोकविज्ञानकल्पनया। 5. अथ समालजातीयेन विज्ञानेन विना न विज्ञानस्य उद्गतिः इति चेत् ; एवं तर्हि धूमस्यापि असमानजातीयात् दहनात् कथमुत्पत्ति ? अथ रूपरूपतया वह्वेः समानजातीयत्वम् ; एवं देहादेरपि समानजातीयत्वं स्वलक्षणरूपतया । इदमेव चेतसि समारोप्य उक्तम्- “ शरीरादेव इति बृहस्पतिः" । 10 अथ ज्ञानरूपतया न समानजातीयत्वं देहस्य; दहनस्थापि धूमरूपतयाऽसमानजातीयत्वम् । नियतकारणजन्याकारतया नियतदेशकाल स्वभावतया च सर्वे भावाः अन्योन्यव्यावृत्ततनवः । न च तेषाम् अन्योन्याकारानुगमोऽस्ति , नाप्येकजात्यनुगमः । तदुक्तम्15 " सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितः । __स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः॥"
ततश्च भिन्नजातीयात् सर्व जायमानं दृष्टम् , न समानजातीयाद्भवत् किंचिद् दृष्टपूर्वम् । एवं च भिन्नजातीयं देहादिकं गर्भादौ विज्ञानमुत्पादयिष्यति । ततश्च न परलोकः 20प्रसिद्ध्यति।
अथ समानजातीय विज्ञानं विना विज्ञानं नोत्पद्यते; तदा न कस्यचिदुत्पत्तिः स्यात्, समालजातीयकारणासंभवात् । ततश्च कार्यानुमानं हीयते ।
इतोऽपि दहनधूमयोः हेतुफलभावावधारणं कर्तुं नैव श25क्यते - किम् एकेन ज्ञानेन दहनधूमयोहेतुफलभावावधारणं क्रियते, आहोस्वित् प्रतिनियतेन ज्ञानेन ? तद्यदि एकं ज्ञानम्