Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 119
________________ ९. ताथागतसंमतस्यानुमानस्य निरासः । ८७ अथ स्वभावान्तरेण जनयति; [न] एकस्य स्वभावद्वयाभावात् - स्वभावद्वये च एकतानुपपन्ना । ततश्च दहनेन धूमोत्पादनं क्रियते न तदा स्वज्ञानमुत्पादयति । ज्ञानं विना केन हेतुफलावधारणं क्रियते? अथ दहनो दहनज्ञानमुत्पाद्यति; न तर्हि दहनस्य धूमोत्पादकत्वम् , तदभावात् न बाहयार्थयो- 5 हेतुफलभावावधारणं दहनादिज्ञानेन शक्यते कर्तुम् । [$३. कार्यानुमाननिरासाय दहनधूमयोर्हेतुफलभावानुपपत्तेपुनरुपक्रमः । ] इतोऽपि दहनधूमयोः हेतुफलभावानुपपत्तिः। यथा अविचलितदहनस्वरूपस्य पूर्वापरानेककार्याविर्भावकत्वं न प्रतिपद्यते भवद्भिः तथा अनायत्तविकारस्य युगपदुत्पन्नानेककार्या-10 विर्भावकत्वमपि न प्रत्येतव्यम् । अथ अभ्युपगम्यते युगपदनेककार्योत्पादकत्वं युगपदनेककार्योत्पादनशक्तियुक्तस्योत्पत्तेः; यद्येवम् - क्रमभाव्यनेककार्याविर्भावकत्वस्योत्पत्तेः अयुगपदेकं कार्य विध्यात् । विद्धात्येव इति चेत्; इदमापेक्षिकत्वं यत् क्रमभाव्यनेककार्यजनकात्मकं स्वरूपम् । एत-15 दभ्युपगमे अभ्युपेतहानमापद्यते। अथ अविचलितरूपेण पूर्वापरकार्य न जन्यते; तदा युगपदपि न कुर्यात् अनायत्तविकारः। ततश्च न दहनाद धूमस्योत्पत्तिः।। ___ अथ एकमेव तेन ज्वलनेन जन्यते; किं तदेकम् - विज्ञानम्, धूमो वा ? तद्यदि विज्ञानमेव जन्यते; न तर्हि धूमं20 दृष्टा अग्नि(ग्निः) प्रतीय[तेऽ]तव्यापारलब्धजन्मवत्त्वात्। अथ धूम एव उत्पाद्यते ; तदा तद्विज्ञानं विना केन हेतुफलभावोऽवगम्यते ? इतोऽपि दहनस्य धूमाविर्भावकत्वं न जाघटीति - किं निमित्तभूतेन धूमोत्पादनं क्रियते, किं वा उपादानभूतेन ?25 तद्यदि निमित्तभूतेनोत्पाद्यते; तदा धूमरूपता न प्राप्नोति उपादानं विना।

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190