Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 129
________________ ९. ताथागतसंमतस्यानुमानस्य निरासः पगमात् । न च अवयवानामावृतत्वेऽनावृतत्वे वा अवयव्यावृतोऽनावृतो वा। अपि तु यदा वस्त्राद्यावरणेन देवदत्तेन्द्रियघटसम्बन्धविघातः क्रियते तदा 'आवृतः' इत्यपदिश्यते। यस्य तु वस्त्रादिनाऽऽवरणेन देवदत्तेन्द्रिय-घटसम्बन्धविघातो न क्रियते , तदपेक्षया अनावृतव्यपदेशः। यथा भवत्पक्षे 5 खकारणानुत्पादकत्वेन अजनकत्वमभिधीयते, न च स्वरूपभेदमासादयति ॥छ॥ [६ १०. अवयविनिराकरण प्रयुक्तस्य चलाचलत्वकृतस्य अवयविभेदप्रसङ्गस्य प्रत्यादेशः।] यदपि अपरमभिहितम् - चलाचलत्वसाधनम् – “ अव-10 यवे चलति चलत्यवयवी, अवयवान्तरे चाऽचलति न चलति - ततश्चलाचलत्वे अवयविनो भेदप्रसंगः "; तदेतद्युक्तम् , चलनस्य स्वयमनभ्युपगमात् । तद्भावे कथं तेन अवयवी भिद्यते ? अथ चलनं विद्यते; तर्हि इदं वक्तव्यम् - स्वविषयलक्षणम्, चलनरूपार्थस्य उत्पत्तेः । अथ परेणेष्टं चलनम् इति कृत्वा व्यप-15 दिश्यते; सत्यम् , इष्टं परेण । न तु अवयवे चलति अवयविनश्वलनमिष्टम् , ततो भिन्नत्वात् । नाप्यवयवान्तरस्याचलने अवयविनोऽचलनमिष्यते, तस्यान्यत्वात् । अपि तु चलनयुक्तः चलतीति व्यपदिश्यते । चलनविकलो निष्कम्प इत्यभिधीयते । अथ तदेव द्रव्यम् उपजातक्रिय चलति अनुपजात-20 क्रियं च न चलति ; सत्यम् , तदेव चलति , तदेव न चलति । नत्व(न्व)वयविनो भेदः प्रसज्यते; न प्रसंगः, चलनस्य ततोऽन्यथा(न्यत्वात्) । चलाचलव्यपदेशश्च अन्योपाधिकृतः । यथा भवत्पक्षे ज्ञानं कार्य कारणं च व्यपदिश्यते - स्वकार्यापेक्षया कारणम् , स्वकारणापेक्षया कार्यम्, न च तस्य भेदोऽस्ति,25 तथा अवयविचलाचलत्वेन न भेदो दृश्यते । १३ त.

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190